Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ १४ अनुसन्धान-५० मुनयो-जगतस्त्रिकालावस्थावि(वे)दिनस्त्वां-भवन्तं आमनन्तिप्रतिपादयन्ति-अभ्यस्यन्ति वा । किम्भूतम् ? पुमांसं-पुरुषम् । कीदृशम् ? परमं-प्रकृष्टम् । तथाऽऽदित्यवर्ण(ग)रवो?---- । [उ]पलभ्य-ज्ञात्वा प्राप्य वा मुनयोर्ज(ज)यन्ति-अभिभवन्ति । कम् ? मृत्यु-मरणम्, मरणभाजो न भवन्ति, मोक्षगमनात् । कथमुपलभ्य ? सम्यग्-ज्ञानादिपूर्वकं च । तथा हे मुनीन्द्र ! - गणधरादिसाधुनाथ ! नान्यो-नापरोऽस्ति । कोऽसौ ? पन्था-मार्गः । कस्य ? शिवपदस्य-मुक्तिस्थानस्य । कीदृशः ? शिव:-क्षेमो-निरपायमि(इ)त्यर्थः । त्वां विहाय-त्वत्सेवया-त्वद्वचनानुष्ठानेन वा मोक्षावाप्तेः, इत्यनेन परदर्शनानि निराकृतानि द्रष्टव्यानि, तेषां मोहान्धत्वेनान्यथा वचोधात् (?) ॥२३॥ अधुना एकस्यापि भगवतो अनेकत्वं गुणद्वारकं स्तवकार आहत्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानः(न)श्व(स्व)रूपममलं प्रवदन्ति सन्तः ॥२४॥ हे न्ना(ना)थ ! सन्तो-विद्वांसस्त्वां-भवन्तं प्रवदन्ति-प्रतिपादयन्ति । किम्भूतम् ? ब्रह्माणं-पद्मयोनि, ज्ञानसम्पन्नत्वात् । तथेश्वरं-महेश्वरं, अणिमाद्यैश्वर्ययुक्तत्वात् । तथाऽनन्तं-वासुदेवं, अलब्धपरत्वात् । कीदृशम् ? अनन्त(ङ्ग)केतुं-कामनाशकम् । तथाऽव्ययं-अक्षयम् । तथा विभुं-व्यापकं, केवलालोकेन व्याप्तचतुर्दशरज्ज(ज्जु)प्रमाणलोकालोकत्वात् । तथाऽचिन्त्यं, भगवत्स्वरूपस्य चिन्तय(यि)तुमशक्यत्वात् । तथाऽऽद्यं, धर्मस्याऽऽदौ तत एव प्रवृत्तेः । तथाऽसङ्ख्यं, न विद्यते ज्ञानादेः सङ्ख्याऽस्येत्यसङ्ख्यम्, एतावत्(द्) ज्ञानं सुखं दर्शनं वा भग[व]तः परिच्छेत्तुमशक्यत्वात् । तथा योगीश्वरं-ध्यानमार्गप्रविष्टनरनायकम् । यतो विदितयोगं-ज्ञान(त)धर्मध्यानादिव्यापारम् । तथाऽनेकं, उक्तक्रमेणाऽनेकरूपत्वात् । तथैकं, स्वरूपेणैकरूपत्वात् । विरोधश्चात्रैवमुद्भावनीयो यद्यनेकं कथ[मेक]मनेकत्वात् । [यद्येकं कथमनेकमेकत्वात् ।] नैक[त्वाऽनेक]त्वे हि परस्परविरुद्ध । विरोधश्च पर(रि)हृत एव । तथा ज्ञानस्वरूपं-ज्ञानमयं अस्त्येव, कर्मक्षयेण शरीराभावात् । तथाऽमलं-निर्मलं, रागादिमलरहितत्वात् ॥२४॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23