Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ अनुसन्धान-५० जन्तवो यस्मिन् सं.(स) भवः-संसारः । स एव जलं-संसारोदकं तस्मिन् । कस्मिन् काले जिनपादयुगमालम्बनम् ?; युगादौ - अवसर्पिणीसमयतृतीयारकपर्यन्तकाले । कीदृशम् ?, उद्योतकं-उद्दीपकं-विस्फारकम् । कासां ?, भक्तामरप्रणतेमौलिमणिप्रभाणाम् । भक्ता-भक्तिमन्तो ये अमरा-देवाः, तेषां प्रणतानम्रीकृता एव मौलयः-शिरोमुकुटानि तेषु मणयो-रत्नानि इन्द्रनीलादीनि, तेषां प्रणता-नम्रीकृता एव मौलयः-शिरोमुकुटानि तेषु मणयो-रत्नानि इन्द्रनी लादीनि, तेषां प्रभा-दीप्तयोऽनेकवर्णाः तासां, भगवत्पादयुग्मस्याऽतिदीप्तिमत्त्वात् । तथा, दलितपापतमोवितानम् । दलितं-विध्वस्तः (स्तं) पापमेव-किल्बिषमेव तमोवितानोऽन्धकारविस्तारोऽपकारित्वाद् ये[न] ते(त)त्तथोक्तम् ॥१-२॥ साम्प्रतं 'किले'त्यनेन पदेनाभौ(नौ?)द्धत्यं सूचितमात्मनस्तदेव प्रकटयतिबुद्धया विनापि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ हे विबुधाच्चितपादपीठ ! हे देवपूजितचरणासन ! भक्तिपरत्वात् प्रणतिसमये, देवद्रुमकुसुमैः, स्तोतुं-नवितुं, समुत्पद्यत (समुद्यत) मतिरुद्यमवबुद्धिः, अहं वर्ते । कीदृशः सन् ?, विगतत्रपोऽपगतलज्जः सन् । कथं स्तोतुं समुत्पद्यत (समुद्यत)मतिः?। विना-ऋतेऽपि, कया? बुद्ध्यासेमुख्या (शेमुष्या), बुद्धिरहितो-ऽपीत्यर्थः । यश्च बुद्धिरहितः स्तवे प्रवर्त्तते स निर्लज्जो भवत्येव । अत्राऽर्थे-ऽर्थान्तरन्यासमाह-कोऽन्योऽपरो जनो लोको विवेकी सहसा-झटिति ग्रहीतु-मादातुमिच्छति-वाञ्छति ?, नैव कश्चित् । किं तद् ?, इन्दुबिम्बं-चन्द्रप्रतिमाम् । कीदृशम् ?, जलसंस्थितमुदकाश्रितम् । कि कृत्वा ?, विहाय-त्यक्त्वा । किम्?, बालमज्ञं शिसुं(शुंवा । स एव गृह्णातीत्यर्थः । तथा मां त्यक्त्वा जानानो न कोऽपि भगवद्गुणानां दुर्लेपत्वात् स्तवे न प्रवर्तत इति ॥३॥ कुतो विगतलज्ज इत्याह - वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या, कल्पान्तकालपवनोद्धतनक्रचक्रं, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्॥४॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23