Book Title: Bhaktamarstava Vrutti Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ डिसेम्बर २००९ कार्यवाहकोनो ऋणस्वीकार करूं छं. नमो वीतरागाय ॥ भक्तामर - वृत्तिः ॥ वृत्तिं भक्तामरादीनां स्तवानां वच्मि यथोचितम् । संक्षेपान्मुक्तिलाभाय सुखबुद्धिप्रबुद्धये ||१|| ३ भक्तामरप्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादा - वालम्बनं भवजले पततां जनानाम् ॥१ ॥ यः संस्तुतः सकलवाड्मयतत्त्वबोधा - दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ युगलम् ॥ I I अहमपि, न केवलमिन्द्रादयः स्तुतवन्तः । स्तोष्ये - स्तवं विधास्ये । किलेत्यात्मनोऽस(श)क्तिमौद्धत्यपरिहारार्थम् । चित्तहरैरुदारैरिति । मानतुङ्गाचार्य कविः । किं स्तोष्ये ? । तं जिनेन्द्रम् | रागादीनां जेतृत्वाज्जिनाः सामान्यकेवलिनः, तेषामिन्द्रः-प्रधानस्तीर्थकरः । तं किम्भूतं ? | प्रथममाद्यमृषभनाथमित्यर्थः । यः किम्भूतः ? । संस्तुतः-सम्यग्-भक्तिबहुमानपुरस्सरम्; भगवदतिसा(शा)यिगुणपरिज्ञानपूर्वकं वा स्तुतो - नुतो - वन्दितः । कैः कर्तृभिः ? । सुरलोकनाथैर्देवनिवासप्रभुभिरिन्द्रैः । कीदृशैः ?। उद्भूतबुद्धिपटुभिः । प्रादुर्भूता या बुद्धिर्मतिस्तया पटवो दक्षा विद्वांसस्तैः । कुत ईदृशैः ? । सकलवाङ्मयतत्त्वबोधात् । वाचा निर्वृत्तं वाड्मयं शास्त्रजातम् । सकलं च तद् वाड्मयं च सकलवाङ्मयं तस्य तत्त्वं परमार्थः, तस्याऽवबोधो ज्ञानं । तस्मात् - शास्त्रावगमात् । कैः कृत्वा संस्तुतः ?, स्तोत्रैः-स्तवनैः । कीदृशैः ?, जगत्त्रितयचित्तहरैः । जगतांभुवनानां त्रितयं त्रयं, तस्य चित्तानि तानि हरन्ति - रञ्जयन्तीति तानि तथोक्तानि । तैर्जगत्त्रये जन्तुमनआवर्जकैः, अत एवोदारैः - उदारार्थैरुद्भटैर्वा । किं कृत्वा स्तोष्ये ?, प्रणम्य - प्रकर्षेण नत्वा । कथं ?, सम्यग् बहुमानयुक्तम्; गुणावबोधसहितं वा । किं तद् ?, जिनपादयुगं - वीतरागचरणयुगलम् । कीदृशं ?, आलम्बनंआश्रयणं । केषां ?, जनानां - लोकानां - प्राणिनामित्यर्थः । किं कुर्वतां ?, पततांअधो गच्छतां-निमज्जतां । क्व ?, भवजले । भवन्ति - उत्पद्यन्ते कर्मायत्ताPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23