Book Title: Bhaktamarstava Vrutti Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ अनुसन्धान-५० अत्रैवार्थेऽर्थान्तरन्यासमाह यत् कोकिलः-यस्मात् पिको मधौ-चैत्रे मधुरं-कर्णसुखदं चारु । किल प्रसिद्धौ । विरौति-नानाप्रकारं वक्ति । तच्चारुचूतकलिकानिकरैकहेतुः - चारुश्चासौ चूतकलिकानिकरश्च स तथोक्तः, स एवैकहेतुः-अनन्यकारणं स तथा । तस्य विवरणस्य चारुकलिकानिकरैकहेतुः स तथोक्तः । वसन्ते किल कोकिलनानाशब्दना(न)स्य शोभनाऽऽम्रमञ्जरीसंघात एको हेतुर्यथा तथा मम स्तवनकरणे त्वद्भक्तिरेवैको हेतु(:) ॥६॥ ननु स्तवेन किं फलम् ? अत आहत्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव सा(शा)वरमन्धकारम् ॥७॥ शरीरभाजां-प्राणिनां पापं-पातकं क्षणाद्-अल्पकालेन क्षयं-विनाशं उपैति-गच्छति । कीदृशम् ? भवसन्ततिसन्निबद्धं-जन्मपरम्परोपार्जितम् । केन केन हेतुना करणेन च ? त्वत्संस्तवेन-भवत्संस्तवनेन । उपमामाह-अन्धकारमिवतम इव, यथा तमो विनाशं गच्छति । किम्भूतम् ? सा(शा)वरं-रात्रिसत्कम् । कीदृशम् ? आक्रान्तलोकं-व्याप्तभुवनम्, तथाऽलिनीलं-भृङ्गकृष्णम्, तथाऽशेषंसकलम् । कथम् ? आशु-शीघ्रम् । किम्भूतं सत् ? सूर्यांशुभिन्नं-रविकरविदारितम् |७|| यतस्तव संस्तवेन क्षणात् क्षयं पापमुपैति, अत आहमत्वेति नाथ ! तव संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ इदं - वक्ष्यमाणं संस्तवनं - संस्तवो मया । कीदृशेनापि ? तनुधियाऽपि-स्तोकबुद्ध्याऽपि आरभ्यते-क्रियते । हे नाथ !- स्वामिन् !। कस्य सम्बन्धि ? तव-भवतः । किं कृत्वा ? मत्वा-ज्ञात्वा । किं तद् ? इति - पूर्वश्लोकभणितम् । कुत आरभ्यते ? तव प्रभावाद्-भवतः सामर्थ्यात्, नाऽऽत्मीया स्तवनकरणशक्ति-रस्ति । तच्च चेतो-मनो हरिष्यति-रञ्जयिष्यति । केषाम् ? सतां-सत्पुरुषाणां सुजनानाम् । अत्र-अत्रार्थेऽर्थान्तरन्यासमाह-ननु-अहो !, उदकबिन्दुः-तोयबिन्दुः मुक्ताफलद्युति-मौक्तिकशोमां उपैति-गच्छति । केषु ?Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23