Book Title: Anusandhan 2008 06 SrNo 44
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 59
________________ ५२ संप्राप्यातिशयं कुतोऽपि निखिलत्रैलोक्यविस्मापकं कुम्भोद्भूरथवा पपौ न जलधीन् सप्ताधि किं हेलया ? ॥ ४ ॥ निःश्वासोद्गतगन्धबन्धुरतया सोत्कण्ठबद्धस्पृहा धावन्ती मधुपालिरास्यकमले ब्राह्मि ! त्वया कौतुकात् । नूनं या करपल्लवेन विधृता प्राप्य स्मितैः शुभ्रतां ब्रूतेऽसौ कथमत्र मूढहृदयस्तामक्षमालां जनः ॥ ५ ॥ एतद्भारति ! पङ्कजं तव कराम्भोजे दधन् मित्रतां यत्पश्यामि हरिप्रियैकसदनं सच्छाययालङ्कृतम् । तन्मन्येऽस्मि करोषि यत्र मनुजे वासं प्रसन्ना सती तत्राद्यापि रुषा विषण्णहृदया धत्ते न लक्ष्मीः स्थितिम् ॥ ६ ॥ पाणिः सूर्यसमस्तम: परिभवी ते वाणि ! यस्य क्षणं साम्मुख्यं भजते स्म नेत्रनलिनस्यानन्दमुद्रां दधत् । तस्याशाः सकलाधिकश्चरदशां संप्रापयन्नन्वहं धत्तां मा वरदाभिधां कथमसावुत्तानलीलां वहन् ॥ ७ ॥ दोषाश्लेषजुषोपि विश्वमखिलं प्रीतिं नयन्तः परां राकाचन्द्रगभस्तयो जडतया सन्तप्तपद्मश्रियः । चञ्चत्पुस्तककैतवादहमिदं शङ्के गिरामीश्वरि ! पिण्डीभूय जडत्वसङ्गहतये भेजुस्त्वदीयं करम् ॥ ८ ॥ इत्थं निर्यदमन्दभूरिपुलकः प्रीतिप्रसन्नाशयः पाण्यम्भोजयुगं ललाटसरिति प्राप्य स्थितस्ते पुरः । देवि ! प्रार्थयते वरं प्रविदधच्छ्रीरत्नसूरिः स्तवं विश्वं क्षिप्तसमस्तमोहगहनं सर्व्वत्र भूयादिति ॥ ९ ॥ छः ॥ 20 Jain Education International अनुसन्धान ४४ (२४) श्रीभरुयच्छ मंडणमुनिसुव्रतस्तवनम् तिहुयणजणमणलोयणपंकेरुहवणवियासणदिणिंद ! । भरुयच्छनयरमण्डण ! जय जय मुणिसुव्वयजिणिंद ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126