Book Title: Anusandhan 1996 00 SrNo 07
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[16]
द्वितीयपङ्क्तिकोष्ठेषु चत्वार्यक्षराणि लिखेत् । तृतीयपक्तिकोष्ठेषु चत्वार्यक्षराणि लिखेत् । चतुर्थपक्तिकोष्ठेषु चत्वार्यक्षराणि लिखेत् । पश्चाद् यथाक्रमेण वाचयित्वा पुनरुत्तरार्द्ध तिर्यग्वाचयेत् । तत्श्चोत्तरार्द्धं भवति । तत्र प्रथमपादाद्यक्षरं तृतीयपादाद्यं भवेत् । द्वितीयं उतराध्दै पञ्चमं भवति तृतीयं. चतुर्थपादाद्यं चतुर्थं, चतुर्थपादे पञ्चमम् । पुनः द्वितीयपक्तिप्रथमकोष्ठस्थं पञ्चममक्षरं उत्तरार्द्ध द्वितीयं अष्टमाक्षरं उत्तरार्धे ऽपि षष्ठं सप्तममुत्तरार्द्ध दशमं अष्टमं चतुर्थ पादे षष्ठम् । पुनस्तृतीयपङ्क्तिप्रथमकोष्ठस्थं उत्तरार्धे तृतीयं द्वितीयमुत्तरार्द्ध सप्तमम् । यो वर्णः पूर्वार्द्ध एकादशः चतुर्थः उत्तरार्द्ध । पुनश्चतुर्थपङ्क्तिप्रथमकोष्ठस्थमुत्तरार्द्ध चतुर्थं द्वितीयमष्टमं तृतीयं द्वादशं चतुर्थं उत्तरार्द्ध अन्त्यम् । एवं पूर्वार्द्धस्य षोडशवर्णा यावन्तः तावन्त उत्तरार्द्ध योजनीयाः । एवं चेज्जालबन्धो भवेत् । यथा - देवधीरहराश्रीरा जाताभाजननागते ।।
देहजानवराताना धीश्रीभाग रराजते ॥ १२१ ।। जालबन्धान्तरे पूर्वार्द्ध यत्तदेव पुनरभ्यसेत् पादचतुष्टये । एवं चेत् जालबन्धान्तरम् । तत्र द्वात्रिंशत्कोष्ठागाराणि कृत्वा तत्र प्रथमपङ्क्तेरष्टसु कोष्ठेषु प्रथमपादस्याष्टावक्षराणि लिखेत् । द्वितीयपङ्क्तिकोष्ठेषु पुनः वाचयेत् । पुनरेकान्तरितत्वेन प्रथमपक्तिद्वितीयपक्तिगताक्षराणि वाचयेत् ॥ यथा - सोमालङ्कृतगात्राया समानाकृत्यगात्मया ।
सोमालङ्कृतगात्राया समानाकृत्यगात्मया ॥ १३२ ॥ गोमूत्रिकाबन्धे पूर्वार्द्ध आद्यो यः सोऽन्य एव भवेत् । यः पूर्वार्द्ध द्वितीयः स उत्तरार्धे द्वितीयः, यश्चतुर्थः स उत्तरार्द्ध चतुर्थः, यः षष्ठः स उत्तरार्द्ध षष्ठः, योऽष्टमः स उत्तराद्धेऽष्टमः, यो दशमः स उत्तरार्द्ध दशमः, यो द्वादशः स उत्तरार्द्ध द्वादशः यश्चतुर्दशः स उत्तरार्द्ध चतुर्दशः, यः षोडशः, स उत्तरार्द्ध षोडशः । प्रातिलोम्येन उत्तरार्द्धस्याक्षराणि वाचनीयानि । यथा - नमस्ते कालकण्ठाय, कमलाकान्तकप्रिय ।
समताकारकम्राय, विमलाकाशलक्षप ॥ १४३ ॥
१. आकृति ११.
२. आकृति १२.
३. आकृति १३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130