Book Title: Anusandhan 1996 00 SrNo 07
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[14]
प्रतिलोमेन कर्तव्यम् । प्रथमे पादे पञ्चमो यो वर्णः स एव चतुर्थपदान्त्य (:) अन्य द् यथाप्रशस्तमेव शङ्खबन्धे ||
यथा ससत्यजयदेहाय देहारूढरसानघ ।
घनसार नमस्तेह हस्तेशूलाऽखिला श्रिय ॥ ३ ॥
छत्रबन्धे - द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ चतुर्थपादान्ते च कर्त्तव्यः । तृतीयपादे यश्चतुर्थ (:) स एव पञ्चमः, यश्चाष्टमः स एव नवमः, द्वादश: स एव त्रयोदशः । अन्यद् यथाप्राप्तम् । एवं चेच्छत्रबन्धः ॥
यश्च
यथा युष्माकं भूतये भूयात्सा भवानी भवप्रिया । या तु देववपुर्भाग-गमिता स्वस्वरूपया ॥ ४॥
छत्रबन्धान्तरे-यो द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ च चतुर्थपादान्ते च कर्त्तव्यः । तथा तृतीयपादादौ वर्णत्रयमनुलोमप्रतिलोमात्मकम् । तथा अन्तिमं च वर्णत्रयमपि चेच्छत्र बन्धान्तरे ||
यथा शिवेन जगतां सैषा, गौरी सकलसंमता ।
तारिका कारिता मामा, या या मातास्तु तत्सुता ॥ ५ ॥
शूलबन्धे - य आद्यो वर्णः स एव तृतीय: पञ्चमश्च; द्वितीयपादान्त्यो वर्णो य: स एव तृतीयपादाद्यः, तत्पञ्चमश्चतुर्थपादान्त्यश्च कर्त्तव्यः । तथा तृतीयपादे यः षष्ठः स एव सप्तमः अष्टमश्च, चतुर्थपादे वर्णद्वयं अनुलोमप्रतिलोमात्मकम् । एवं चेच्छूलबन्धः ||
यथा सर्वसत्त्वमं वेद्मि त्वामीशं नाशितक्लम ।
,
'मदमोदमना नाना, नाम साररसा दम ॥ ६ ॥
धनुर्बन्धे - प्रथमपादादौ यदक्षरद्वयं अनुलोमात्मकं तच्चतुर्थपादान्ते प्रतिलोमात्मकं कर्त्तव्यम् । तथा द्वितीयपादान्ते अक्षरद्वयं अनुलोमं तृतीयपादान्ते प्रतिलोमेन स्यात् । तथा प्रथमपादान्तवर्णद्वयमनुलोमं द्वितीयपादादौ द्वितीयपादान्ते चद्वर्णद्वयं तदनुलोमप्रतिलोमरूपम् । एवं चेद्धनुर्बन्धो भवेत् ॥
१. आकृति ३. । २. आकृति ४. । ३. रक्षिका इति प्रतिपार्श्वे टि । ४. मदो नुद्यते छिद्यतेऽनेनेति मदनो दमनो यस्य इति प्रति प्रार्श्वे टि. । ५. आकृति ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130