SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ [14] प्रतिलोमेन कर्तव्यम् । प्रथमे पादे पञ्चमो यो वर्णः स एव चतुर्थपदान्त्य (:) अन्य द् यथाप्रशस्तमेव शङ्खबन्धे || यथा ससत्यजयदेहाय देहारूढरसानघ । घनसार नमस्तेह हस्तेशूलाऽखिला श्रिय ॥ ३ ॥ छत्रबन्धे - द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ चतुर्थपादान्ते च कर्त्तव्यः । तृतीयपादे यश्चतुर्थ (:) स एव पञ्चमः, यश्चाष्टमः स एव नवमः, द्वादश: स एव त्रयोदशः । अन्यद् यथाप्राप्तम् । एवं चेच्छत्रबन्धः ॥ यश्च यथा युष्माकं भूतये भूयात्सा भवानी भवप्रिया । या तु देववपुर्भाग-गमिता स्वस्वरूपया ॥ ४॥ छत्रबन्धान्तरे-यो द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ च चतुर्थपादान्ते च कर्त्तव्यः । तथा तृतीयपादादौ वर्णत्रयमनुलोमप्रतिलोमात्मकम् । तथा अन्तिमं च वर्णत्रयमपि चेच्छत्र बन्धान्तरे || यथा शिवेन जगतां सैषा, गौरी सकलसंमता । तारिका कारिता मामा, या या मातास्तु तत्सुता ॥ ५ ॥ शूलबन्धे - य आद्यो वर्णः स एव तृतीय: पञ्चमश्च; द्वितीयपादान्त्यो वर्णो य: स एव तृतीयपादाद्यः, तत्पञ्चमश्चतुर्थपादान्त्यश्च कर्त्तव्यः । तथा तृतीयपादे यः षष्ठः स एव सप्तमः अष्टमश्च, चतुर्थपादे वर्णद्वयं अनुलोमप्रतिलोमात्मकम् । एवं चेच्छूलबन्धः || यथा सर्वसत्त्वमं वेद्मि त्वामीशं नाशितक्लम । , 'मदमोदमना नाना, नाम साररसा दम ॥ ६ ॥ धनुर्बन्धे - प्रथमपादादौ यदक्षरद्वयं अनुलोमात्मकं तच्चतुर्थपादान्ते प्रतिलोमात्मकं कर्त्तव्यम् । तथा द्वितीयपादान्ते अक्षरद्वयं अनुलोमं तृतीयपादान्ते प्रतिलोमेन स्यात् । तथा प्रथमपादान्तवर्णद्वयमनुलोमं द्वितीयपादादौ द्वितीयपादान्ते चद्वर्णद्वयं तदनुलोमप्रतिलोमरूपम् । एवं चेद्धनुर्बन्धो भवेत् ॥ १. आकृति ३. । २. आकृति ४. । ३. रक्षिका इति प्रतिपार्श्वे टि । ४. मदो नुद्यते छिद्यतेऽनेनेति मदनो दमनो यस्य इति प्रति प्रार्श्वे टि. । ५. आकृति ५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520507
Book TitleAnusandhan 1996 00 SrNo 07
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy