SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [15] यथा - रक्ष त्वं धृतसद्भूते, भूतेश भुवनत्रयम् । यन्त्रप्रायमिदं भोगिभोगिभूषसदक्षर ॥ ७॥ शरबन्धे-प्रथमपादाद्यो वर्णो यः स एव तृतीयः पञ्चमश्च, यः सप्तमः स एव द्वितीयपादाद्यः तृतीयश्च, यः प्रथमपादान्त्यः स एव द्वितीयपादे द्वितीयः, यो द्वितीयपादे पञ्चमः स एव सप्तमः तृतीयपादाद्यश्च, द्वितीयपादे य : षष्ठः स एवाष्टमः, तृतीयपादान्त्यो यः स एव चतुर्थपादे चतुर्थोऽन्त्यः षष्ठश्च, चतुर्थपादाद्यो यः स एव तृतीयः पञ्चमश्च चतुर्थपादे स च सप्तमः । एवं चेत् शरबन्धः ॥ यथा -- सदासविसरापत्र पत्रपङ्क्तिगतागता ।। गत एवोस्त्वपात्रासा यालयासानसा नसा ॥ ८२ ॥ छुरिकाबन्धे-प्रथमपादे यो द्वितीयो वर्णः स एव चतुर्थः षष्ठो, योऽष्टमः स एव तृतीयपादाद्यः चतुर्थपादान्त्यश्च कर्तव्यः । द्वितीयपादे प्रथमवर्णद्वयमनुलोमप्रतिलोमात्मकं तृतीयपादान्त्यो वर्णः यः स एव चतुर्थपादाद्यः कर्तव्यः ।। यथा - श्रितायताद्भुता भान्ता मुमामामुदपापद । तात त्वं वहसीशान नन्तव्यापि जगन्मता ॥ ९ ॥ छुरिकाबन्धान्तरे द्वितीयपादेऽक्षरद्वयं यमकरूपम् । पुनरप्यक्षरद्वयं यमकरूपम् । असावपि छुरिकाबन्धो भवति ॥ यथा – क्लेशपाशवशस्थाय देवदेवप्रियप्रिय । यच्छ सौख्यं महादेव वन्द्य मह्यं सदाश्रय ॥१०॥ अन्यच्छुरिकाबन्धान्तरे द्वितीयचतुर्थषष्ठाक्षराण्येकरूपाणि । अष्टमः द्वादशस्तृतीयपादान्तश्चतुर्थादिश्च अमी एकरूपाः । तथा द्वितीयपादाद्यो य स एव तृतीयः यो द्वितीयपादान्त्यः स एव तृतीयपादाद्यः चतुर्थपादान्त्यश्च, तृतीयपादे यः सप्तमः स एव चतुर्थे द्वितीयः ॥ यथा - सा राजराजराजाज वाजवाजशिखिश्रितम् । [तं] यामायप्रभावाज जवाभाजनयत्सुतम् ॥ ११ ॥ षोडशकोष्ठागाराणि कृत्वा प्रथमपङ्क्तौ कोष्ठचतुष्टये चत्वार्यक्षराणि लिखेत् । १. आकृति. ६। २. आकृति ७. । ३. आकृति. ८. । ४. आकृति ९. । ५. आकृति १०.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520507
Book TitleAnusandhan 1996 00 SrNo 07
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy