SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ [16] द्वितीयपङ्क्तिकोष्ठेषु चत्वार्यक्षराणि लिखेत् । तृतीयपक्तिकोष्ठेषु चत्वार्यक्षराणि लिखेत् । चतुर्थपक्तिकोष्ठेषु चत्वार्यक्षराणि लिखेत् । पश्चाद् यथाक्रमेण वाचयित्वा पुनरुत्तरार्द्ध तिर्यग्वाचयेत् । तत्श्चोत्तरार्द्धं भवति । तत्र प्रथमपादाद्यक्षरं तृतीयपादाद्यं भवेत् । द्वितीयं उतराध्दै पञ्चमं भवति तृतीयं. चतुर्थपादाद्यं चतुर्थं, चतुर्थपादे पञ्चमम् । पुनः द्वितीयपक्तिप्रथमकोष्ठस्थं पञ्चममक्षरं उत्तरार्द्ध द्वितीयं अष्टमाक्षरं उत्तरार्धे ऽपि षष्ठं सप्तममुत्तरार्द्ध दशमं अष्टमं चतुर्थ पादे षष्ठम् । पुनस्तृतीयपङ्क्तिप्रथमकोष्ठस्थं उत्तरार्धे तृतीयं द्वितीयमुत्तरार्द्ध सप्तमम् । यो वर्णः पूर्वार्द्ध एकादशः चतुर्थः उत्तरार्द्ध । पुनश्चतुर्थपङ्क्तिप्रथमकोष्ठस्थमुत्तरार्द्ध चतुर्थं द्वितीयमष्टमं तृतीयं द्वादशं चतुर्थं उत्तरार्द्ध अन्त्यम् । एवं पूर्वार्द्धस्य षोडशवर्णा यावन्तः तावन्त उत्तरार्द्ध योजनीयाः । एवं चेज्जालबन्धो भवेत् । यथा - देवधीरहराश्रीरा जाताभाजननागते ।। देहजानवराताना धीश्रीभाग रराजते ॥ १२१ ।। जालबन्धान्तरे पूर्वार्द्ध यत्तदेव पुनरभ्यसेत् पादचतुष्टये । एवं चेत् जालबन्धान्तरम् । तत्र द्वात्रिंशत्कोष्ठागाराणि कृत्वा तत्र प्रथमपङ्क्तेरष्टसु कोष्ठेषु प्रथमपादस्याष्टावक्षराणि लिखेत् । द्वितीयपङ्क्तिकोष्ठेषु पुनः वाचयेत् । पुनरेकान्तरितत्वेन प्रथमपक्तिद्वितीयपक्तिगताक्षराणि वाचयेत् ॥ यथा - सोमालङ्कृतगात्राया समानाकृत्यगात्मया । सोमालङ्कृतगात्राया समानाकृत्यगात्मया ॥ १३२ ॥ गोमूत्रिकाबन्धे पूर्वार्द्ध आद्यो यः सोऽन्य एव भवेत् । यः पूर्वार्द्ध द्वितीयः स उत्तरार्धे द्वितीयः, यश्चतुर्थः स उत्तरार्द्ध चतुर्थः, यः षष्ठः स उत्तरार्द्ध षष्ठः, योऽष्टमः स उत्तराद्धेऽष्टमः, यो दशमः स उत्तरार्द्ध दशमः, यो द्वादशः स उत्तरार्द्ध द्वादशः यश्चतुर्दशः स उत्तरार्द्ध चतुर्दशः, यः षोडशः, स उत्तरार्द्ध षोडशः । प्रातिलोम्येन उत्तरार्द्धस्याक्षराणि वाचनीयानि । यथा - नमस्ते कालकण्ठाय, कमलाकान्तकप्रिय । समताकारकम्राय, विमलाकाशलक्षप ॥ १४३ ॥ १. आकृति ११. २. आकृति १२. ३. आकृति १३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520507
Book TitleAnusandhan 1996 00 SrNo 07
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy