SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सर्वतोभद्रे - चतुःषष्ठिकोष्ठागाराणि कृत्वा तत्र प्रथमपङ्क्तिकोष्ठाष्टके प्रथमपादाक्षराणि अष्टौ लिखेत् । द्वितीयपादाक्षराणि द्वितीयपङ्क्तिकोष्ठेषु लिखेत् । तृतीयपङ्क्तिकोष्ठेषु तृतीपादाक्षराणि, चतुर्थे चतुर्थपादाक्षराणि लिखेत् । पञ्चमपङ्क्तिकोष्ठेषु चतुर्थपादाक्षराणि षष्ठपक्तिकोष्ठेषु तृतीयपादाक्षराणि, सप्तमपङ्क्तिकोष्ठेषु द्वितीयपादाक्षराणि, अष्टमपङ्क्तिकोष्ठेषु प्रथमपादाक्षराणि लिखेत् । प्रथमपादाद्यो यः स एव तृतीयपादे तृतीयः । आद्यपादे यो द्वितीयः स एव द्वितीयपादाद्यः, यस्तृतीयः स एव द्वितीयपादे तृतीयः । तृतीयपादे प्रथमो यः स एव तृतीयपादे द्वितीयः, प्रथमे चतुर्थः स एक चतुर्थपादाद्यो, यो द्वितीयपादे द्वितीयः स एव तृतीये चतुर्थः चतुर्थे तृतीयश्च । यो द्वितीये चतुर्थः स एव चतुर्थे द्वितीयः । पादचतुष्टयेऽपि प्रतिपादकं वर्णचतुष्टयमनुलोमप्रतिलोमात्मकम् । एवं सर्वतोभद्रं भवेत् ॥ यथा वामासानि निसामावा मानासाध्वध्वसानमा । [17] सासावामा सासावासा (सासावाननवासासा) निध्वनत्यत्यनध्वनि ॥ १५१ ॥ द्वितीयः प्रथमो वर्णः पदे युग्मांहिपूर्वजः । द्वितीयांहितृतीयो यः स तृतीयद्वितीयकः ॥ १६ ॥ सर्वतोभद्रलक्ष्यैतदवादीद् राजशेखरः । प्रस्तारस्तु तथा प्रोक्तः तथाप्यर्थोऽपि विस्तृतः ॥ १७ ॥ वामं कौटिल्यं अस्यति क्षिपतीति वामासा । चन्द्रप्रभावविशदं चन्दनातिरतिप्रदम् । प्रभातिनन्दपदेशं प्रवरप्रकटं यशः ॥ १८२ ॥ यापात्यपायपतितानवतारिताया यातारितायपतिवाग्भूवितानिमाया । यामानितावपतु वो वसुसास्यगेया । यागेस्यसासुररिपोर्जययात्युपाया ॥ १९ ॥ रुद्रटालङ्कारात् कमलबन्धान्तरम् ॥ इति श्री नृसिंहविरचितो बन्धकौमुदीग्रन्थः समाप्तोऽयम् ॥ १. आकृति १४. । २. आकृति १५. । ३. आकृति १६. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520507
Book TitleAnusandhan 1996 00 SrNo 07
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1996
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy