Book Title: Anusandhan 1996 00 SrNo 07
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
[15] यथा - रक्ष त्वं धृतसद्भूते, भूतेश भुवनत्रयम् ।
यन्त्रप्रायमिदं भोगिभोगिभूषसदक्षर ॥ ७॥ शरबन्धे-प्रथमपादाद्यो वर्णो यः स एव तृतीयः पञ्चमश्च, यः सप्तमः स एव द्वितीयपादाद्यः तृतीयश्च, यः प्रथमपादान्त्यः स एव द्वितीयपादे द्वितीयः, यो द्वितीयपादे पञ्चमः स एव सप्तमः तृतीयपादाद्यश्च, द्वितीयपादे य : षष्ठः स एवाष्टमः, तृतीयपादान्त्यो यः स एव चतुर्थपादे चतुर्थोऽन्त्यः षष्ठश्च, चतुर्थपादाद्यो यः स एव तृतीयः पञ्चमश्च चतुर्थपादे स च सप्तमः । एवं चेत् शरबन्धः ॥ यथा -- सदासविसरापत्र पत्रपङ्क्तिगतागता ।।
गत एवोस्त्वपात्रासा यालयासानसा नसा ॥ ८२ ॥ छुरिकाबन्धे-प्रथमपादे यो द्वितीयो वर्णः स एव चतुर्थः षष्ठो, योऽष्टमः स एव तृतीयपादाद्यः चतुर्थपादान्त्यश्च कर्तव्यः । द्वितीयपादे प्रथमवर्णद्वयमनुलोमप्रतिलोमात्मकं तृतीयपादान्त्यो वर्णः यः स एव चतुर्थपादाद्यः कर्तव्यः ।। यथा - श्रितायताद्भुता भान्ता मुमामामुदपापद ।
तात त्वं वहसीशान नन्तव्यापि जगन्मता ॥ ९ ॥ छुरिकाबन्धान्तरे द्वितीयपादेऽक्षरद्वयं यमकरूपम् । पुनरप्यक्षरद्वयं यमकरूपम् । असावपि छुरिकाबन्धो भवति ॥ यथा – क्लेशपाशवशस्थाय देवदेवप्रियप्रिय ।
यच्छ सौख्यं महादेव वन्द्य मह्यं सदाश्रय ॥१०॥ अन्यच्छुरिकाबन्धान्तरे द्वितीयचतुर्थषष्ठाक्षराण्येकरूपाणि । अष्टमः द्वादशस्तृतीयपादान्तश्चतुर्थादिश्च अमी एकरूपाः । तथा द्वितीयपादाद्यो य स एव तृतीयः यो द्वितीयपादान्त्यः स एव तृतीयपादाद्यः चतुर्थपादान्त्यश्च, तृतीयपादे यः सप्तमः स एव चतुर्थे द्वितीयः ॥ यथा - सा राजराजराजाज वाजवाजशिखिश्रितम् ।
[तं] यामायप्रभावाज जवाभाजनयत्सुतम् ॥ ११ ॥ षोडशकोष्ठागाराणि कृत्वा प्रथमपङ्क्तौ कोष्ठचतुष्टये चत्वार्यक्षराणि लिखेत् । १. आकृति. ६। २. आकृति ७. । ३. आकृति. ८. । ४. आकृति ९. । ५. आकृति १०.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130