Book Title: Anekantjaipataka Part 03
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 230
________________ अनेकान्तजयपताका कार्यकारणस्य तद्भेदात् । यावत्यश्च तद्व्यावृत्तयः तावत्यश्च श्रुतयोऽतत्कार्यकारणपरिहारेण व्यवहारार्थाः । यथा प्रयत्नानन्तरीयकः शब्दः श्रावण इत्यतत्कारणकार्यपरिहारार्थम् । तस्मात् स्वभावाभेदेऽपि येन धर्मेण नाम्ना यो विशेषो भेदः प्रतीयते न स शक्योऽन्येन प्रत्याययितुमिति नैकार्थाः सर्वशब्दाः । २ ० तन्न प्रतिज्ञार्थैकदेशो हेतुरिति ॥३/४०-४२॥ (म०) यदि य एव कृतकः स एवानित्यः भेदाभावात्, तदा प्रतिज्ञार्थैकदेशो हेतुः स्यादित्याह-सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थिते: आत्मात्मीयरूपव्यवस्थितत्वात् । स्वभावपरभावाभ्यां सजातीयाद् विजातीयाच्च व्यावृत्तिभागिनो यस्मान्न केनचिन्मिश्राः तस्माद् यतो यतोऽस्वरूपादर्थात् व्यावृत्तिरर्थानां तन्निबन्धनाः तत्तद्व्यावृत्तिनिमित्ता जातिभेदास्तद्विशेषावगाहिनः तत्स्वलक्षणाश्रयाः कल्प्यन्ते शब्दैः स्ववाच्यतया ||३/४०-४१॥ पृ. ६८९, पं. ४ अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् । यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥२/३०॥ यद्यन्यव्यावृत्तिः सामान्यम्, किं तस्य रूपम् ? इत्याह- अर्थानां विशेषाणां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् यन्निष्ठा यद्विषयास्ते इमे सांकेतिका: शब्दास्तस्य रूपं स्वभावो न किञ्चन वस्तुतः कल्पितत्वात् ॥२/३०॥ पृ. ७१९, पं. १ अपि च पररूपं स्वरूपेण यया संवियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥३/६८॥ तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥३/६९॥ परिशिष्ट - १ → Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258