Book Title: Anekantjaipataka Part 03
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 231
________________ परिशिष्ट - १ पृ. ७२०, पं. १ तस्या अभिप्रायवशात्, सामान्यं सत् प्रकीर्त्तितम् । तदसत् परमार्थेन, यथा सङ्कल्पितं तया ॥३/७०॥ (स्वो०) बुद्धिः खलु तदन्यव्यतिरेकिणः पदार्थानाश्रित्योत्पद्यमाना विकल्पिका स्ववासनाप्रकृतिमनुविदधती भिन्नमेषां रूपं तिरोधाय प्रतिभासमभिन्नमात्मीयमध्यस्य तान् संसृजन्ती संदर्शयति । सा चैकसाध्यसाधनतया अन्यविवेकिनां भावानां तद्विकल्पवासनायाश्च प्रकृतिः यदेवमेषा प्रतिभाति । तदुद्भवा सा चेयं संवृतिः संक्रियतेऽनया स्वरूपेण पररूपमिति । ते च तया संवृतभेदाः स्वयं भेदिनोऽप्यभेदिन इव केनचिद्रूपेण प्रतिभान्ति । तदेषां बुद्धिप्रतिभासमनुरुन्धानैः बुद्धिपरिवर्त्तिनामेव भावानामाकारविशेषपरिग्रहाद्बहिरिव स्फुरतां सामान्यमित्युच्यते । अनेकान्तजयपताका कथमिदानीमन्यापोहः सामान्यम् ? स एव खल्वन्यापोहः । तमेव गृह्णती सा प्रकृतिविभ्रमात् विकल्पानां वस्तुग्राहिणीव च प्रतिभाति । सा हि तदन्यविवेकिष्वेव भावेषु भवन्ती विवेकविषयेति गम्यते । ननु बाह्याः विवेकिनः । न च तेषु विकल्पवृत्तिरिति कथं तेषु भवति ? व्याख्यातार एवं विवेचयन्ति । न तु व्यवहर्तारः । ते तु स्वालम्बनमेवार्थक्रियायोग्यं मन्यमानाः दृश्यविकल्प्यावर्थमेकीकृत्य प्रवर्तन्ते । तदभिप्रायवशादेवमुच्यते । तथा तत्कारितयाऽतत्कारिभ्यो भिन्नान् शब्देन प्रतिपादयन्ति वक्तारः । तत्त्वचिन्तकास्तु प्रतिभासभेदादिभ्यो नाभेदमनुसन्धत्ते ॥३/६८-३/७०॥ (म०) यदि सर्वतो व्यावृत्तस्वभावा भावाः, न तेषु सामान्यमस्ति, कथं गोत्वमित्यादिसामान्यप्रतीतः इत्याह-भेदिनः सर्वतो व्यावृत्तान् भावानाश्रित्य परम्परापातेभ्य उत्पद्य यया धिया एकार्थप्रतिभासिन्या एकार्थाध्यवसायस्वाकारया स्वरूपेण स्वप्रतिभासेन परेषां स्वलक्षणानां रूपं सर्वतो व्यावृत्तं संव्रियते प्रच्छाद्यते सा बुद्धिः संवृतिरुच्यते ॥३/६८॥ (म०) तथा संवृत्या स्वयमात्मना भेदिनः स्वस्वभावव्यवस्थिता भावाः संवृतनानात्वाः स्थगितभेदाः केनचिद् रूपेण विजातीयव्यावृत्त्युपकल्पितेन गोत्वादिनाऽभेदिन इवाभान्ति ॥३/६९ ॥ (म०) तस्या बुद्धेः सामान्यरूपतयाऽध्यवसिताकाराया अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम्, विजातीयव्यावृत्तेर्वस्तुष्वभावत् । तदुपकल्पितं गोत्वादि सामान्यरूपेण बुद्ध्याकारमध्यवस्यन्ति व्यवहर्तारः । अध्यवसायानुरोधेन च सामान्यं सदित्युच्यते । यथा वस्तुत्वेन तत् सामान्यं तया संवृतिबुद्ध्या कल्पितम् तथाऽसत् परमार्थतः ||३/७० || Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258