Book Title: Anekantjaipataka Part 03
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 229
________________ परिशिष्ट अनेकान्तजयपताका परिशिष्ट - १) अनेकान्तजयपताकाऽन्तर्गतानां प्रमाणवार्तिकश्लोकानां स्वोपज्ञव्याख्यायाः मनोरथनन्दिकृतवृत्त्याश्च समुपन्यासः पृ. ६८८ पं. ३ य एव तर्हि कृतकः स एवानित्यः, भेदाभावात् प्रतिज्ञार्थैकदेशो हेतुः स्यात् । नैष दोषः । यस्मात् सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥३/४०॥ तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥३/४१॥ (स्वो०) सर्व एव हि भावाः स्वरूपव्यवस्थितयः । ते नात्मानं परेण मिश्रयन्ति, तस्मादपरत्वप्रसङ्गात् । यद्येषामभिन्नमात्मभूतं रूपम्, न तत्तेषाम्, तदानीं तेषामभावात् । तदैव हि स्यात्, तस्यैव भावात् तद्व्यतिरिक्तस्यान्यस्याभावात् तस्यैव च पुनर्भेदविरोधात् । तच्चात्मनि व्यवस्थितममिश्रमेव । अर्थान्तरमयनैकसंबन्धेऽपि न तत्तेषां सामान्यम्, अतद्रूपत्वात्, द्वित्वादिसंयोग-कार्य-द्रव्येष्वपि प्रसङ्गात् । न हि संबन्धिनाऽप्यन्येनान्ये समाना नाम तद्वन्तो नाम स्युः । भूतवत् कण्ठे गुणेन । नाभिन्नप्रत्ययविषया भूतवत् । तदात्मानमेव हि बुद्धिः संसृजन्ती सामान्यविषया प्रतिभासते नैकसंबन्धिनाविति, भूतवत् । तद्दर्शिन्याः सा भ्रान्तिरिति चेत्, तदर्शनीति कुतः ? निर्बीजभ्रान्त्ययोगादिति चेत्, त एव तदेककार्या बीजम्, संख्या-संयोगकार्यद्रव्यादिमत्सु भूतादिष्वभावात् च । तन्न, तत्र सामान्यबुद्धौ निवेशाभावात् सामान्यमन्यत् । सति वा तस्यापि स्वात्मनि व्यवस्थानादमिश्रणमेवान्येन । तस्मादिमे भावाः स्वजातीयाभिमतादन्यस्माच्च व्यतिरिक्ताः, स्वभावेनैकरूपत्वात् । यतो यतो भिन्नास्तद्भेदप्रत्यायनाय कृतसन्निवेशैः शब्दैः, ततस्ततो भेदमुपादाय स्वभावाभेदेऽप्यनैकधर्माणः प्रतीयन्ते । तेऽपि शब्दाः सर्वभेदानाक्षेपेऽप्येकभेदचोदनात् तत्स्वलक्षणनिष्ठा एव भवन्ति । तदेकस्मादपि तस्य भेदोऽस्तीति ।। तस्मादेकस्य भावस्य यावन्ति पररूपाणि तावत्यस्तदपेक्षया व्यावृत्तयः, तदसंभवि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258