Book Title: Anekantjaipataka Part 03
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 232
________________ अनेकान्तजयपताका परिशिष्ट - १ पृ. ८३५, पं. ३ वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥१/४॥ (म०) ननु शब्दस्यार्थप्रतिबन्धाभावान्न प्रामाण्यं स्यात्, इष्यते च अनुमानत्वात्, इत्याहवक्तुर्व्यापारो विवक्षा तस्य विषयो योऽर्थः समारोपितबहीरूपो ज्ञानाकारः प्रकाशते बुद्धौ विवक्षात्मिकायाम् । तत्र शब्दस्य प्रामाण्यं लिङ्गत्वम् । शब्दादुच्चरिताद् विवक्षितार्थप्रतिभासी विकल्पोऽनुमीयत इत्यर्थः । तत्कार्यत्वात् तच्छब्दस्य । न पुनरर्थतत्त्वनिबन्धनम् तत्प्रतिबन्धाभावात् ॥१/४॥ 卐卐卐 अनेकान्तं वादं यदि सकलनिर्वाहकुशलं, मतानि स्पर्धन्ते नयलवसमुत्थानि बहुधा ॥ तदा किं नो भावी बहुलकलिकौतूहलवशाद्, घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥६॥ - अनेकांतवादमाहाळ्यविंशिकामूलम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258