________________
अनेकान्तजयपताका
कार्यकारणस्य तद्भेदात् । यावत्यश्च तद्व्यावृत्तयः तावत्यश्च श्रुतयोऽतत्कार्यकारणपरिहारेण व्यवहारार्थाः । यथा प्रयत्नानन्तरीयकः शब्दः श्रावण इत्यतत्कारणकार्यपरिहारार्थम् । तस्मात् स्वभावाभेदेऽपि येन धर्मेण नाम्ना यो विशेषो भेदः प्रतीयते न स शक्योऽन्येन प्रत्याययितुमिति नैकार्थाः सर्वशब्दाः ।
२
०
तन्न प्रतिज्ञार्थैकदेशो हेतुरिति ॥३/४०-४२॥
(म०) यदि य एव कृतकः स एवानित्यः भेदाभावात्, तदा प्रतिज्ञार्थैकदेशो हेतुः स्यादित्याह-सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थिते: आत्मात्मीयरूपव्यवस्थितत्वात् । स्वभावपरभावाभ्यां सजातीयाद् विजातीयाच्च व्यावृत्तिभागिनो यस्मान्न केनचिन्मिश्राः तस्माद् यतो यतोऽस्वरूपादर्थात् व्यावृत्तिरर्थानां तन्निबन्धनाः तत्तद्व्यावृत्तिनिमित्ता जातिभेदास्तद्विशेषावगाहिनः तत्स्वलक्षणाश्रयाः कल्प्यन्ते शब्दैः स्ववाच्यतया ||३/४०-४१॥
पृ. ६८९, पं. ४
अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् ।
यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥२/३०॥
यद्यन्यव्यावृत्तिः सामान्यम्, किं तस्य रूपम् ? इत्याह- अर्थानां विशेषाणां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् यन्निष्ठा यद्विषयास्ते इमे सांकेतिका: शब्दास्तस्य रूपं स्वभावो न किञ्चन वस्तुतः कल्पितत्वात् ॥२/३०॥
पृ. ७१९, पं. १
अपि च
पररूपं स्वरूपेण यया संवियते धिया ।
एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥३/६८॥ तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥३/६९॥
परिशिष्ट - १
→
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org