Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 8
________________ विशेषा. ॥८०६॥ paddale तदेवं पुण्य-पापयोर्लक्षणादिभिर्भेदं प्रसाध्य तद्भेदभूनप्रकृतिभेदेनापि तयोर्भेदमुपदर्शयन्नाह सायं सम्म हासं पुरिस-रइ-सुभाउ-नाम-गोत्ताई। पुण्णं, सेसं पावं नेयं सविवागमविवागं ॥ १९४६ ॥ सातवेदनीयम् , शोधितमिथ्यात्वपुद्गलरूपं सम्यक्त्वम् , हास्यम् , पुरुषवेदः, रतिः; शुभायुः, नाम-गोत्राणि चेत्येतत् सर्व पुण्यमभिधीयते । तत्र नारकायुर्वर्ज शेषमायुस्त्रयं शुभम् , देवद्विक-यशः-कीर्ति तीर्थकरनामाद्याः सप्तत्रिंशत् प्रकृतयो नामकर्मणि शुभाः, गोत्रे पुनरुच्चैर्गोत्रं शुभम् । एताः षट्चत्वारिंशत् प्रकृतयः किल शुभत्वात् पुण्यम् । अन्ये तु मोहनीयभेदान् सर्वानपि जीवस्य विपर्यासहेतुत्वात् पापमेव मन्यन्ते । ततः सम्यक्त्व-हास्य-पुरुषवेद-रतिवर्जा द्विचत्वारिंशदेव प्रकृतयः पुण्यम् । तद्यथा "सौयं उच्चागोयं नर-तिरि-देवाउयाई तह नामे | देवदुर्ग मणुयदुर्ग पणिंदजाई य तणुपणगं ॥ १ ॥ अंगीबंगाण तिगं पढमं संघयणमेव संठाणं । सुभवण्णाइचउक्कं अगुरुलहू तह य परघायं ॥ २ ॥ ऊसासं आयावं उजोय विहगगई वि य पसत्था । तस-बायर-पज्जत्तं पत्तेय थिरं सुभं सुभगं ॥ ३ ॥ मुस्सर आएज जसं निम्मिण तित्थयरमेव एयाओ । बायालं पगईओ पुण्णं ति जिणेहिं भणिआओ ॥ ४ ॥" भणितशेषास्तु या व्यशीतिप्रकृतयस्तत् सर्वमशुभत्वात् पापं विज्ञेयम् । सम्यक्त्वं कथमशुभम्- कथं तत् पापम् ? इति चेत् ।। उच्यते- रुचिरूपमेव हि सम्यक्त्वं शुभं तच्चेद न विचार्यते, किन्तु शोधितमिथ्यात्वपुद्गलरूपम्, तच शङ्काद्यनर्थहेतुत्वादशुभमेव, अशुभत्वाच्च पापम् । सम्यग्रुचेश्वातिशयेनानावारकत्वादुपचारमात्र एवेदं सम्यक्त्वमुच्यते, परमार्थतस्तु मिथ्यात्वमेवैतत् । इत्यलं प्रसङ्गेन । इदं च पुण्य-पापलक्षणमुभयमपि सविपाकमविपाकं च मन्तव्यम्- यथा बद्धं तथैव विपाकतः किश्चिद् वेद्यते, किश्चित्तु मन्दरसं नीरसं वा कृत्वा प्रदेशोदयेनाविपाकं वेद्यत इत्यर्थः । तदेवं पुण्यं पापं च भेदेन व्यवस्थाप्य निरस्तः संकीर्णपुण्य-पापपक्षः। सात सम्पत्तवं हास्य पुरुष-रति-शुभायु-नाम-गोत्राणि । पुण्यं, शेष पापं ज्ञेयं सविपाकमविपाकम् ।। १९५६ ॥ २ सातमुधि नर तिर्यग्-देवायुष्काणि तथा नानि । देवद्विकं मनुजद्विकं पञ्जेन्द्रियजातिश्न तनुपञ्चकम् ॥1॥ अङ्गोपाङ्गानां त्रिकं प्रथम संहननमेव संस्थानम् । शुभवर्णादिचतुष्कमगुरुलघु तथा च पराघातम् ॥ २॥ उच्छवास आताप उद्योतो बिहायोगतिरपि प्रशस्ता । ब्रस बादर-पर्याप्त प्रत्येकं स्थिरं शुभं सुभगम् ॥३॥ सुस्वरमादेयं यशो निर्माणं तैर्थकरमेवैताः । द्विचत्वारिंशत् प्रकृतयः पुण्यमिति जिनणिताः ॥ ४ ॥ ८०६॥ बाहर For Personal and प JainEducationa.Internati Use Only ww.jaineeibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202