Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 347
________________ श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] २८७ भक्तिं करोति । यद्यपि चान्योऽपि गुरोर्भक्तिं करोति तथाऽपि ममापि निर्जरा स्यादित्यात्मानुग्रहबुद्ध्याऽन्येनापि भक्ति: कर्त्तव्येति । लौहार्यगौतमदृष्टान्तेन भावयति जइ वि य लोहसनाणो, गिण्हइ खीणंतराइणो उंछं। तहवि य गोअमसामी, पारणए गेहए गुरुणो ॥२॥[व्य.भा./२६७१] यद्यपि च लोहसमानो लोहार्यः क्षीणान्तरायस्य भगवतो वर्द्धमानस्वामिनः सदैवोच्छंएषणीयभक्तादिकं गृह्णाति, तस्य भगवद्वैयावृत्त्यकरत्वात् । यतः "धन्नो सो लोहज्जो, खंतिखमो पवरलोहसरिवन्नो । जस्स जिणो पत्तातो, इच्छइ पाणीहि भुत्तुं जे" ॥[ ] तथाऽपि गौतमस्वामी स्वपारणके गुरोर्वर्द्धमानस्वामिनो योग्यं गृह्णाति । एवमन्येनाप्यवैयावृत्त्यकरभावेऽपि यथायोग्यं गुरोः कर्त्तव्यम् । इति व्यवहारभाष्यवृत्तौ षष्ठोद्देशके ६५९ प्रतौ ४५७ पत्रे ॥८॥ अस्वाध्याये सर्वथा स्वाध्यायो न कर्त्तव्य इत्यभिप्रायो लिख्यते राया इव तित्थगरो, जाणवया साहु घोसणं सुत्तं । मेच्छा य असज्झातो, रयणधणाई व नाणादी ॥१॥[व्य.भा./३१०४] अत्र राजा इव तीर्थकर: जानपदा इव साधवः, घोषणमिव सूत्रं, म्लेछा इवास्वाध्यायः, रत्नधनानीव ज्ञानादीनि । तत्र ये साधवो जानपदस्थानीया राजस्थानीयस्य तीर्थकरस्याज्ञां नानुपालयन्ति ते प्रान्तदेवतया छल्यन्ते, प्रायश्चित्तदण्डेन इव दण्डन्ते । इति व्यवहारभाष्यसप्तमोद्देशके ६५९ प्रतौ ५०५ पत्रे ॥९॥ तथा सन्ध्यास्वपि स्वाध्यायो न कर्त्तव्य इत्यक्षराणि लिख्यन्ते चउसंझासु न कीरइ, पाडिवएसुं तहेव चउसुं पि । जो जत्थ पूज्जती तू , सव्वहिं सुगिम्हतो नियमा ॥१॥[व्य.भा./३१२४] चतस्रः सन्ध्यास्तिस्रो रात्रौ । तद्यथा-प्रस्थिते सूर्ये, अर्द्धरात्रे, प्रभाते च, चतुर्थी दिवसस्य मध्यभागे, एतासु चतसृष्वपि दिनसन्ध्यासु स्वाध्यायो न क्रियते, शेषक्रियाणां तु प्रतिलेखनादीनां न प्रतिषेधः । स्वाध्यायकरणे चाज्ञाभङ्गादयो दोषास्तथा चतस्रः प्रतिपदः तद्यथा-आषाढपौर्णमासीप्रतिपत् १ इन्द्रमहप्रतिपत् २ कार्तिकपौर्णमासीप्रतिपत् ३ सुग्रीष्मप्रतिपत् ४ चैत्रपौर्णमासीप्रतिपदित्यर्थः, एतास्वपि चतसृष्वपि प्रतिपत्सु तथैव स्वाध्याय एव न क्रियते । न शेषक्रियाणां प्रतिषेधः । इह प्रतिपद्ग्रहणेन प्रतिपत्यपर्यन्ताश्चत्वरो महाः सूचिताः । इत्येषां तु चतुर्णा महानां मध्ये यो महो यस्मिन् देशे यतो D:\ratan.pm5\5th proof


Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452