Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 375
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३१५ स्युः । तत्र क्षारमेघाम्लमेघाग्निमेघविषमेघाशनिमेघा युगान्तसमयप्रवर्षिणो यथोत्तरं सकलबीजप्लोषाय प्रवर्त्तन्ते । पुष्करावर्त्तमेघक्षीरमेघघृतमेघामृतमेघरसमेघाः पुनः कल्पस्यादौ सकलबीजाद्युत्पत्तये यथोत्तरं सम्भवन्ति । तदुक्तम् "तदा च विरसा मेघाः, क्षारमेघाम्लमेघकाः ।। विषाग्न्यशनिमेघाश्च, वर्षिष्यन्त्यात्मसन्निभम् ॥१॥ [हेमदी./१९९] येन भावी कासः श्वासः, शूलं कुष्टं जलोदरम् । ज्वर: शिरोऽतिरन्येऽपि, मनुष्याणां महामयाः ॥२॥ [ हेमदी./२००] दुःखं स्थास्यन्ति तिर्यञ्चो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः" ॥३॥ [हेमदी./१९२] अपि च "तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो, धान्यमुत्पादयिष्यति ॥४॥ [हेमदी./२१६] तृतीयो घृतमेघाख्यः, स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृतमेघाख्यः, औषध्यादि करिष्यति ॥५॥ [ हेमदी./२१७] पृथ्व्यादीनां रसकर्ता, रसमेघश्च पञ्चमः । पञ्चत्रिंशद्दिना वृष्टि विनी सौम्य ! दुर्दिना" ॥६॥ [हेमदी./२१८ ] इत्यादि श्रीउपदेशरत्नाकरे नवमतरङ्गे ॥५२॥ अथ प्रतिक्रमणे कस्मिन् समये कर्तव्ये तल्लिख्यतेएषां कालस्तूत्सर्गेणैवमुक्तः अद्धनिबुड्डे सूरे, सुत्तं कबँति गीअत्था । इय वयणपमाणेणं, देवसियावसस्सए कालो ॥१॥ [ ] रात्रिकस्य चैवम् आवस्सयस्स समए, निद्दामुदं चयंति आयरिया । तह तं कुणंति जह दस, पडिलेहाणंतरं सूरो ॥१॥ [ ] अपवादतस्तु दैवसिकं दिवसतृतीयप्रहारादर्द्धरात्रं यावत् योगशास्त्रवृत्तौ तु मध्याह्नादारभ्यार्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि "उग्घाड-पोरिसिं जा राइयमावस्सयस्स चुन्नीए । ववहाराभिप्पाया भणंति पुण जाव पुरिमटुं" ॥ [ ] इति श्राद्धविधौ द्वितीयप्रकाशे ७६ पत्रे ॥५४॥ D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452