Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 393
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३३३ असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवट्टमाणे बहूणं पाणाणं बहूणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं अदुक्खावणयाए जाव अपरियावणाए वट्टइ इति । वृत्तिर्यथा-'जीवे णं' इत्यादि इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् । 'सदा' नित्यं 'समियं'ति सप्रमाणं 'एयइ'त्ति एजते-कम्पते 'एजृ कम्पने' इति वचनात् 'वेयइ'त्ति व्येजते-विविधं कम्पते 'चलइ'त्ति स्थानान्तरं गच्छति 'फंदइ'त्ति स्पन्दते-किञ्चिच्चलति 'स्पन्दि किञ्चिच्चलने' इति वचनात् । अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्यो 'घट्टइ'त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति । 'खुब्भइ'त्ति क्षुभ्यति पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा । 'उदीरइ'त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा । शेषक्रियाभेदसङ्ग्रहार्थमाह-'तं तं भावं परिणमई'त्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनादिकपरिणामं यातीत्यर्थः । एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । 'तस्स जीवस्स अंते' त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा 'आरंभइ'त्ति आरभते पृथिव्यादीनुपद्रवयति । 'सारंभइ'त्ति संरभते तेषु विनाशसङ्कल्पं करोति । 'समारभइ'त्ति समारभते तानेव परितापयति । आह च "संकप्पो संरंभो, परितापकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं विसुद्धाणं" ॥१॥ [व्य.भा./४६ ] इदं च ‘क्रिया-क्रियावतोः कथञ्चिदभेदः' इत्यभिधानाय तयोः समानाधिकरणत: सूत्रमुक्तम् । अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह–'आरंभे' इत्यादि, आरम्भे अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च । अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरम्भमाणः समारम्भमाणो जीवः, इत्यनेन प्रथमो वाक्यार्थोऽनूदितः । आरम्भे वर्तमाने, इत्यादिना तु द्वितीयः, 'दुक्खावणताए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादि दुःखहेतुप्रापणायां वर्तते, इति योगः । तथा शोकापनायां-दैन्यप्रापणायां 'जूरावणताए'त्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणताए'त्ति तेपापनायां 'तेपृ ष्ठेपृ क्षरणार्थे' इति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां, "पिट्टावणयाए' त्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीर D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452