Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 398
________________ [२] [श्रीविचाररत्नाकरः मञ्जूषा समयार्थसार्थनिकरे भूषा स्वकीयान्वये, मान्यो मानविमानिमानवनुतः श्रीवाचक: सोऽभवत् ॥१५॥ यच्चारित्रमखिन्नकिन्नरगणादाकर्ण्य कर्णामृतं, सभ्यानीक्षितुमक्षमः समभवल्लज्जाविनम्राननः । सर्वत्रोद्गतनेत्रपत्रपटलस्तत्रापि लज्जाकुलः, स्वं धत्तुं न शशाक पाकमथनो ध्यायन्नहिल्याननम् ॥१६।। श्रीमद्वीरपरम्परासुरलतां सन्तापितां सागरैः, क्षारोमिप्रकरानुकारिवचनैर्व्यालोक्य येनामुना। कृत्वा वैजयपक्षमण्डपमिमां तत्राधिरोप्यादरात् , प्रौढाकारि तथा यथा जगदिमां तुष्टं फलैः सेवते ॥१७॥ अष्टभिरर्थतः कुलकम् । तदनु मनुजमान्योऽनन्यसामान्यभाग्यस् त्रिभुवनगुरुपट्टे सूरिशक्रो बभूव । विजयिविजयसेनः फेनपिण्डावदातः, प्रसृमरवरकीतिर्मूर्तिमान् पुण्यराशिः ॥१८॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः । भूपाकब्बरसंसदि स्ववचनैर्युक्तिप्रथापेशलैर्माद्यद्वन्धुरसिन्धुरोद्धरकरैरम्भोजमाला यथा ॥१९॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षटतर्कोदधिमन्दरः स्मरजयी चारित्रिचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः, स श्रीमान विजयप्रयुक्ततिलकः सरीश्वरः सोऽभवत ॥२०॥ यः श्रीसूरिवरः समत्वमदधद् भ्राजिष्णुना जिष्णुना, लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः । दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् , दर्पान्धोरगघोरसागरजलैराप्लाव्यमाना बलात् ॥२१॥ D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452