________________
[२]
[श्रीविचाररत्नाकरः मञ्जूषा समयार्थसार्थनिकरे भूषा स्वकीयान्वये, मान्यो मानविमानिमानवनुतः श्रीवाचक: सोऽभवत् ॥१५॥ यच्चारित्रमखिन्नकिन्नरगणादाकर्ण्य कर्णामृतं, सभ्यानीक्षितुमक्षमः समभवल्लज्जाविनम्राननः । सर्वत्रोद्गतनेत्रपत्रपटलस्तत्रापि लज्जाकुलः, स्वं धत्तुं न शशाक पाकमथनो ध्यायन्नहिल्याननम् ॥१६।। श्रीमद्वीरपरम्परासुरलतां सन्तापितां सागरैः, क्षारोमिप्रकरानुकारिवचनैर्व्यालोक्य येनामुना। कृत्वा वैजयपक्षमण्डपमिमां तत्राधिरोप्यादरात् , प्रौढाकारि तथा यथा जगदिमां तुष्टं फलैः सेवते ॥१७॥ अष्टभिरर्थतः कुलकम् । तदनु मनुजमान्योऽनन्यसामान्यभाग्यस् त्रिभुवनगुरुपट्टे सूरिशक्रो बभूव । विजयिविजयसेनः फेनपिण्डावदातः, प्रसृमरवरकीतिर्मूर्तिमान् पुण्यराशिः ॥१८॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः । भूपाकब्बरसंसदि स्ववचनैर्युक्तिप्रथापेशलैर्माद्यद्वन्धुरसिन्धुरोद्धरकरैरम्भोजमाला यथा ॥१९॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षटतर्कोदधिमन्दरः स्मरजयी चारित्रिचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः, स श्रीमान विजयप्रयुक्ततिलकः सरीश्वरः सोऽभवत ॥२०॥ यः श्रीसूरिवरः समत्वमदधद् भ्राजिष्णुना जिष्णुना, लक्ष्मीदक्षकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः । दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् , दर्पान्धोरगघोरसागरजलैराप्लाव्यमाना बलात् ॥२१॥
D:\ratan.pm5\5th proof