________________
अथ ग्रन्थकारस्य प्रशस्तिः ]
तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमाभृद्धिभुः । स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्रशस्ताभिधस्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥२२॥ आजन्माऽपि रजःप्रसङ्गरहिते रत्नप्रदीपोज्ज्वले, विश्वामोदिसुवासने श्रुतधने चातुर्यचन्द्रोदये । यच्चेतःसदने निरस्तमदने स्वाध्यायदौवारिके, श्रीधर्मः क्षितिपः क्षमादिगृहिणीवर्गैः सह क्रीडति ॥२३॥
यत्कीर्त्याद्भुतमेतदद्य विहितं शुभ्रं सृजन्त्या जगत्, कृष्णश्वेतरुचिः श्रितः श्रियमियं प्रोवाच शङ्काकुला । कस्त्वं त्वद्दयितो न सोऽसिततनुर्नूनं स एव प्रिये, दम्पत्योरितरेतरं सशपथं क्लृप्तः कलिर्नैकशः ॥२४॥ कण्ठे सारसरस्वती हृदि कृपानीतिक्षमाशुद्धयो, वक्त्राब्जे मुखवस्त्रिका सुभगता काये करे पुस्तिका । भूपालप्रणतिः पदे दिशि दिशि श्लाघाऽभितः सम्पदः, इत्थं भूरिवधूवृतोऽपि विदितो यो ब्रह्मचारीश्वरः ॥२५॥ लक्ष्मीमीश्वरतां च यः परिचितामुत्सृज्य बाल्यादपि, श्रामण्यं श्रितवानगण्यगुणभृत्पुण्यप्रवीणाशयः । तत्रज्झन्नपरान्तिकं तदितरा त्वक्ष्णाऽपि नाङ्गीकृताऽप्येतत्पादपवित्रगेहिसदने तिष्ठत्यहो रागिता ॥ २६॥ शीलं यस्य परे स्तुवन्ति मतिनोऽप्यन्तर्मनोऽभीष्टदः, कालेऽस्मिन्नपि जाग्रदुग्रमहिमा यद्गोत्रमन्त्रोद्भुतः । निःशेषागमवारिधेरपि सुखं दत्तावकाशे हृदि, स्थातुं न प्रभुरङ्गजश्चिरमिदं यस्य त्रयं चित्रकृत् ॥२७॥ एतेषामादेशात् समुच्चितः प्रवचनादयं ग्रन्थः । श्रीहीरविजयगणपतिशिशुपाठककीर्त्तिविजयेन ॥२८॥
D:\ratan.pm5\5th proof
[ ३३९