________________
अथ ग्रन्थकारस्य प्रशस्तिः ]
[ ३३७
तदनु विजयदानः सूरिरासीदसीमोज्ज्वलमहिमनिधानं सर्वसाधुप्रधानम् । त्रिदश इह यदङ्घ्रिद्वन्द्वभक्तां पयोधे-र्वहनविलयमग्नां श्राविकामुद्दधार ॥८॥ अपरमपि कियतं वर्णयामस्तदीयं, निरुपममहिमानं भासमानं युगेऽस्मिन् । अधिरजनिनिकायो हिंसकव्यन्तरो यो, निजविशदचरित्रैः श्रावकं तं चकार ॥९॥
तत्पट्टक्षितिपालभालतिलकश्चन्द्रान्वयालङ्कृतिविद्वन्मण्डनहारहीरविजयः सूरीश्वरः सोऽभवत् । सद्वैराग्यविवेकिता विनयिता सौभाग्यभाग्यादिजं, जाग्रद्यस्य यशो दिशो धवलयन्नाद्यापि किं माद्यति ॥१०॥ हेमाचार्यमवार्यवर्ययशसं सम्यग्विचार्याऽपि नो, काचिच्चित्तचमत्कृतिः स हि गुरुर्देवीगणोपासितः । चित्रं किं त्विदमद्य तेन गुरुणा काले कलौ जाग्रति, म्लेच्छः स्वच्छमतिः कृतः कृतधिया भूमीश्वरोऽकब्बरः ॥११॥
यं विश्वैकगुरुं ननाम सुमतिर्लुङ्कापतिर्मेघजी
संज्ञो विज्ञजनैः समं समयवित्त्यक्त्वाऽधिपत्यं महत् ।
हंसः केनचिदंहसा निपतितश्चेत् पल्वले पङ्किले, स्वच्छः किं तत एति नातिरयतः सन्मानसो मानसम् ॥१२॥
यस्योद्गायति डब्बराभिधसरो नित्यं निजाङ्केशयप्राणित्राणभवं यशो नवमिव व्यालोलवीचिस्वनैः । क्रोडक्रीडदनेकविष्किरगरुत्पातारवोन्मर्दलं, झिल्लीझङ्कृतितालमन्तिकगतैः पारापतैर्हुङ्कृतम् ॥१३॥
यौ
शत्रुञ्जय - रैवताचलगिरी सङ्कोचमाप्तौ पुरा, म्लेच्छोत्सर्पितचण्डदण्डभयतः शीर्षस्थदेवालयौ । येनैतावभयावुभौ तु विहितौ दीप्तौषधीदीपिका, रात्रावप्युरुलोकचक्रकलितौ नित्योत्सवौ तिष्ठतः ॥१४॥ विद्वल्लोचनसोमसोमविजयो यस्यान्तिषत्कुञ्जरो, मन्त्री सौकृतकृत्यमन्त्रविषये मित्रं मनः प्रीणने ।
D:\ratan.pm5\5th proof