________________
॥ अथ ग्रन्थकारस्य प्रशस्तिः ॥ यस्योदग्रसमग्रसम्पदुदधे रैरूप्यरत्नोद्भवाः, प्राकाराः कपिशीर्षमण्डलमिषादङ्गीकृतोद्ग्राविकाः । निर्यदीधितिदीपिकाभिरभितः पश्यन्ति मोहाद्यरीन् , गर्जन्तः सरदुन्दुभिध्वनिमिषाच्चञ्चत्पताकाकराः ॥१॥ उद्यत्कोकनदच्छदाकृतिपदाङ्गष्ठे यदालिङ्गितो, मेरुः कुञ्जरकर्णपर्णचपलो येनार्भकत्वे कृतः । सोढं तेन च पामरामृतकृतं कष्टं यदेतद्वयं, स्मारं स्मारमपारमुद्द्यरमणो, नाद्यापि किं मोदते ॥२॥ सार्वः पूर्वमपूर्वपूर्वरचनाबीजं तु पर्वावली, मौलिखञ्चितरत्नकान्तिलहरीनिर्यत्नरम्यक्रमः । कल्याणाङ्करकन्दलोऽमलमनःसङ्कल्पकल्पद्रुमः, स: श्रीवीरजिनेश्वरः समभवद्भद्रद्रुमाम्भोधरः ॥३॥ त्रिभिर्विशेषकम् । तत्पदप्रभुरभूदथ जेता, श्रीसुधर्मजिनशासननेता । आयुगान्तमपि सन्ततिशाखा, भाविनी भगवती भुवि यस्य ॥४॥ तस्य पट्टसरणा: चरणाग्र्याः , सूरयः समभवन् बहवोऽपि । येषु वाच्यमपि वर्षसहस्र-नैव सच्चरितमन्यतमस्य ।।५।। श्रीमदानन्दविमलाभिधः समभवद्भुवनभानुस्ततोऽनुक्रमान्मुनिपतिः । येन शैथिल्यनिर्मूलनान्निर्ममे, निर्ममेशेन जिनशासनस्योन्नतिः ॥६॥ तस्य संविग्नचूडामणेर्गुणगणान् , गणयितुं कः क्षमः श्रमणधरणीपतेः । यद्विहारेण सद्वासना जज्ञिरे , भुवि जना मलयपवनेन फलदा इव ॥७॥