________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३३५ अथ केचिच्छ्रमणोपासकाः साधर्मिकवात्सल्यादावाशाकादिसंस्कृतौ पापं शङ्कन्ते परं तदयुक्तम् , सदारम्भे पुण्यभूयस्त्वात् , पापस्याल्पत्वात् । इत्थमेव च "तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जणं असणं पाणं खाइमं साइमं जाव पडिलाभेमाणस्स किं कज्जति ? गोयमा ! बहुयरा से निज्जरा कज्जइ" । [ ] इत्यादि भगवतीसूत्रं सङ्गच्छते । अस्यां च शङ्कायां विचार्यमाणायां विशेष(जिन)प्रासादाद्यपि अकर्त्तव्यमापद्येत । अलं वा युक्तिविस्तरेण । उक्तमपि पूर्वसूरिभिः फलपुष्पपत्रादिविशिष्टसामग्र्या साधर्मिकवात्सल्यम् । यथा
तं अत्थं तं च सामत्थं, तं विन्नाणं सुउत्तमं । साहम्मियाण कज्जंमि, जं वच्चंति सुसावया ॥१॥[ श्रा.कृ./२०५] अन्नन्नदेसाण समागयाणं, अन्नन्नजाईउसमुब्भवाणं । साहम्मियाणं गुणसुट्ठियाणं, तित्थंकराणं वयणे ठियाणं ॥२॥ [ श्रा.कृ./२०६ ] वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहिं य सप्फलेहिं। सुसावयाणं करणिज्जमेयं, कयं तु जम्हा भरहाहिवेणं ॥३॥[ श्रा.कृ./२०७] वज्जाउहस्स रामेण, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु , तहा वच्छल्लयं करे ॥४॥ [ श्रा.कृ./२०८ ] साहम्मियाण वच्छल्लं, एयं अन्नं वियाहियं ।
धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥५॥[ श्रा.कृ./२०९] इति श्रीश्रावकदिनकृत्ये ॥८९॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयनाम्नी वेला समाप्ता ॥
अनेकसिद्धान्तविचाररत्न-रम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राप्ता समाप्ति रसरम्यवेला ॥१॥
D:\ratan.pm5\5th proof