________________
B]
[श्रीविचाररत्नाकरः सन्तापे वर्त्तते, क्वचित् पठ्यते 'दुक्खावणयाए' इत्यादि तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' इत्यधिकमभिधीयते । तत्र 'किलामणायाए'ति ग्लानिनयने, 'उद्दावणयाए' त्ति उत्त्रासने, उक्तार्थविपर्ययमाह-'जीवे णं' इत्यादि, ‘णो एयइ'त्ति शैलेशीकरणे योगनिरोधान्नो एजते, इति । एजनादिरहितस्तु नारम्भादिषु वर्तते । तथा च न प्राणादीनां दु:खापनोदिषु तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति । इति श्रीभगवतीसूत्रवृत्तौ तृतीयशतके तृतीयचमराख्योद्देशके ४८७ प्रतौ १०२।१०३ पत्रे ॥८७॥
इत्थं च केवलिशरीराज्जीवविराधनाऽङ्गीकारे कथं तस्याष्टादशदोषरहितत्वमित्यादिका या तवोक्तिः सा तु अत्यन्तमसमीचीना । एवं चोभयमतसम्मते सुसाधुशरीराज्जीवविराधनास्वीकारे तस्य साधोश्चतुर्महाव्रतित्वं वदतोऽपि ते मुखरस्य किमयुक्तं स्यात् , इति त्यज्यतामयं कठिनो हठः । इति ।
ननु प्रकरणाद्युक्तत्वात् योगोद्वहनं नास्माकमनुमतम् । यदि क्वाऽप्याचाराङ्गादौ श्रुते स्पष्टाक्षरैर्योगोद्वहनं स्यात्तहि मन्यत एव । एवं वयस्य ! अतिचमत्कृता स्मः, तव मुखादप्येतादृशाक्षरोद्गमैविषकुण्डादिव पीयूषबुद्बुदैः शृणु तावत् सकर्णो भूत्वा साक्षात् सिद्धान्ताक्षराणि योगोद्वहनविषयाणि-"तीहिं ठाणेहिं संपन्नेहिं अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वितीवएज्जा तंजहा-अणिदाणताए दिट्ठिसंपन्नयाए जोगं वाहिताए" ॥ वृत्तिर्यथा-'तिहिं' इत्यादि, कण्ठ्यम् । नवरंअनादिकं-आदिरहितं, अनवदग्रं-अनन्तं, दीर्घाध्वं-दीर्घमार्ग, चत्वारोऽन्ता-विभागा नरकगत्यादयो यस्य तच्चतुरन्तदीर्घत्वं प्राकृतत्वात् , संसारं एव कान्तारं तद्व्यतिव्रजेत्व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथा ह्यनन्तमरण्यमतिमहत्वात् , तच्चतुरन्तं दिग्भेदादिति निदानं भोगद्धिप्रार्थनास्वभावमार्तध्यानं तद्वर्जितता अनिदानता तया दृष्टिसम्पन्नता सम्यग्दृष्टिता तया, योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा तया । इति श्रीस्थानाङ्गतृतीयस्थानकप्रथमोद्देशके ३१० प्रतौ ७४ पत्रे ॥८८॥
न च वाच्यमत्र योगस्य समाधिस्थायितेत्यर्थष्टीकायां व्याख्यात एव, सत्यं भवतष्टीका यदि प्रमाणं तर्हि श्रुतोपधानकारित्वमित्यनेनार्थेन किमपराद्धम् ? न च श्रुतान्तरासङ्गतोऽयमर्थ इति ब्रुवीथाः, “जोगवं उवहाणवं" [ उत्त.११/१४गा.] इत्याद्युतराध्ययनोक्तानामन्येषामपि शास्त्राक्षराणां प्राग्दर्शितत्वादिति ।
D:\ratan.pm5\5th proof