________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३३३ असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवट्टमाणे बहूणं पाणाणं बहूणं भूयाणं बहूणं जीवाणं बहूणं सत्ताणं अदुक्खावणयाए जाव अपरियावणाए वट्टइ इति । वृत्तिर्यथा-'जीवे णं' इत्यादि इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात् । 'सदा' नित्यं 'समियं'ति सप्रमाणं 'एयइ'त्ति एजते-कम्पते 'एजृ कम्पने' इति वचनात् 'वेयइ'त्ति व्येजते-विविधं कम्पते 'चलइ'त्ति स्थानान्तरं गच्छति 'फंदइ'त्ति स्पन्दते-किञ्चिच्चलति 'स्पन्दि किञ्चिच्चलने' इति वचनात् । अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्यो 'घट्टइ'त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति । 'खुब्भइ'त्ति क्षुभ्यति पृथिवीं प्रविशति क्षोभयति वा पृथिवीं बिभेति वा । 'उदीरइ'त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा । शेषक्रियाभेदसङ्ग्रहार्थमाह-'तं तं भावं परिणमई'त्ति उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनादिकपरिणामं यातीत्यर्थः । एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । 'तस्स जीवस्स अंते' त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा 'आरंभइ'त्ति आरभते पृथिव्यादीनुपद्रवयति । 'सारंभइ'त्ति संरभते तेषु विनाशसङ्कल्पं करोति । 'समारभइ'त्ति समारभते तानेव परितापयति । आह च
"संकप्पो संरंभो, परितापकरो भवे समारंभो ।
आरंभो उद्दवओ, सव्वनयाणं विसुद्धाणं" ॥१॥ [व्य.भा./४६ ] इदं च ‘क्रिया-क्रियावतोः कथञ्चिदभेदः' इत्यभिधानाय तयोः समानाधिकरणत: सूत्रमुक्तम् । अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह–'आरंभे' इत्यादि, आरम्भे अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च । अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरम्भमाणः समारम्भमाणो जीवः, इत्यनेन प्रथमो वाक्यार्थोऽनूदितः । आरम्भे वर्तमाने, इत्यादिना तु द्वितीयः, 'दुक्खावणताए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादि दुःखहेतुप्रापणायां वर्तते, इति योगः । तथा शोकापनायां-दैन्यप्रापणायां 'जूरावणताए'त्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणताए'त्ति तेपापनायां 'तेपृ ष्ठेपृ क्षरणार्थे' इति वचनात् , शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां, "पिट्टावणयाए' त्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीर
D:\ratan.pm5\5th proof