Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 397
________________ अथ ग्रन्थकारस्य प्रशस्तिः ] [ ३३७ तदनु विजयदानः सूरिरासीदसीमोज्ज्वलमहिमनिधानं सर्वसाधुप्रधानम् । त्रिदश इह यदङ्घ्रिद्वन्द्वभक्तां पयोधे-र्वहनविलयमग्नां श्राविकामुद्दधार ॥८॥ अपरमपि कियतं वर्णयामस्तदीयं, निरुपममहिमानं भासमानं युगेऽस्मिन् । अधिरजनिनिकायो हिंसकव्यन्तरो यो, निजविशदचरित्रैः श्रावकं तं चकार ॥९॥ तत्पट्टक्षितिपालभालतिलकश्चन्द्रान्वयालङ्कृतिविद्वन्मण्डनहारहीरविजयः सूरीश्वरः सोऽभवत् । सद्वैराग्यविवेकिता विनयिता सौभाग्यभाग्यादिजं, जाग्रद्यस्य यशो दिशो धवलयन्नाद्यापि किं माद्यति ॥१०॥ हेमाचार्यमवार्यवर्ययशसं सम्यग्विचार्याऽपि नो, काचिच्चित्तचमत्कृतिः स हि गुरुर्देवीगणोपासितः । चित्रं किं त्विदमद्य तेन गुरुणा काले कलौ जाग्रति, म्लेच्छः स्वच्छमतिः कृतः कृतधिया भूमीश्वरोऽकब्बरः ॥११॥ यं विश्वैकगुरुं ननाम सुमतिर्लुङ्कापतिर्मेघजी संज्ञो विज्ञजनैः समं समयवित्त्यक्त्वाऽधिपत्यं महत् । हंसः केनचिदंहसा निपतितश्चेत् पल्वले पङ्किले, स्वच्छः किं तत एति नातिरयतः सन्मानसो मानसम् ॥१२॥ यस्योद्गायति डब्बराभिधसरो नित्यं निजाङ्केशयप्राणित्राणभवं यशो नवमिव व्यालोलवीचिस्वनैः । क्रोडक्रीडदनेकविष्किरगरुत्पातारवोन्मर्दलं, झिल्लीझङ्कृतितालमन्तिकगतैः पारापतैर्हुङ्कृतम् ॥१३॥ यौ शत्रुञ्जय - रैवताचलगिरी सङ्कोचमाप्तौ पुरा, म्लेच्छोत्सर्पितचण्डदण्डभयतः शीर्षस्थदेवालयौ । येनैतावभयावुभौ तु विहितौ दीप्तौषधीदीपिका, रात्रावप्युरुलोकचक्रकलितौ नित्योत्सवौ तिष्ठतः ॥१४॥ विद्वल्लोचनसोमसोमविजयो यस्यान्तिषत्कुञ्जरो, मन्त्री सौकृतकृत्यमन्त्रविषये मित्रं मनः प्रीणने । D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452