Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 395
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३३५ अथ केचिच्छ्रमणोपासकाः साधर्मिकवात्सल्यादावाशाकादिसंस्कृतौ पापं शङ्कन्ते परं तदयुक्तम् , सदारम्भे पुण्यभूयस्त्वात् , पापस्याल्पत्वात् । इत्थमेव च "तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जणं असणं पाणं खाइमं साइमं जाव पडिलाभेमाणस्स किं कज्जति ? गोयमा ! बहुयरा से निज्जरा कज्जइ" । [ ] इत्यादि भगवतीसूत्रं सङ्गच्छते । अस्यां च शङ्कायां विचार्यमाणायां विशेष(जिन)प्रासादाद्यपि अकर्त्तव्यमापद्येत । अलं वा युक्तिविस्तरेण । उक्तमपि पूर्वसूरिभिः फलपुष्पपत्रादिविशिष्टसामग्र्या साधर्मिकवात्सल्यम् । यथा तं अत्थं तं च सामत्थं, तं विन्नाणं सुउत्तमं । साहम्मियाण कज्जंमि, जं वच्चंति सुसावया ॥१॥[ श्रा.कृ./२०५] अन्नन्नदेसाण समागयाणं, अन्नन्नजाईउसमुब्भवाणं । साहम्मियाणं गुणसुट्ठियाणं, तित्थंकराणं वयणे ठियाणं ॥२॥ [ श्रा.कृ./२०६ ] वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहिं य सप्फलेहिं। सुसावयाणं करणिज्जमेयं, कयं तु जम्हा भरहाहिवेणं ॥३॥[ श्रा.कृ./२०७] वज्जाउहस्स रामेण, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु , तहा वच्छल्लयं करे ॥४॥ [ श्रा.कृ./२०८ ] साहम्मियाण वच्छल्लं, एयं अन्नं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥५॥[ श्रा.कृ./२०९] इति श्रीश्रावकदिनकृत्ये ॥८९॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयनाम्नी वेला समाप्ता ॥ अनेकसिद्धान्तविचाररत्न-रम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राप्ता समाप्ति रसरम्यवेला ॥१॥ D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452