Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 400
________________ ३] संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्तंसैः ॥२९॥ किं चात्र लेखनशोधनविषये यत्नं चकार मच्छिष्यः । विनयविजयाभिधानः, प्रथमादर्शं च स लिलेख ॥३०॥ यद्यपि मया तु किञ्चिन्नलिखितमत्रास्ति नूतनं तदपि । कृतिभिः शोध्यं धर्मप्रणयादविचारितं यदिह ॥३१॥ इयदागमोक्तयुक्तिप्रचयाद्यदुपार्जितं मया सुकृतम् । तेन ममास्तु विशिष्टा, निरन्तरं बोधिबीजाप्तिः ॥ ३२॥ अस्मिल्लक्षविपक्षपक्षतिमिकग्रासाग्रहप्रस्फुरत्सत्पक्षौघतिमिङ्गले कलजय श्रीमन्दिरे सुन्दरे । उद्यद्भूरिविचारचारुलहरीप्रव्यक्तयुक्त्यावलीमुक्ताः स्वच्छजले चिरं मणिगणैः क्रीडन्तु ते धीवराः ||३३|| यावद्दिव्यवधूविलासरसिकः स्वर्भोगभङ्गीसुखं, जम्भारातिरसौ भुनक्ति भगवानुद्भूतभाग्याद्भुतः । तावत्सर्गनिरर्गलान्तरतमः स्तोमप्रणाशक्षमं, शस्तं शास्त्रमिदं निरस्तदुरितं पृथ्वीतले नन्दतात् ॥३४॥ यावद्व्योमतरङ्गिणीजलमिलत्कल्लोलमालालसद्दिग्दन्ताबलकीर्णवर्ण्यसलिला सेकप्रणष्टश्रमम् । ज्योतिश्चक्रमनुक्रमेण नभसिभ्रामत्यजस्त्रं क्षितौ, तावन्नन्दतु शास्त्रमेतदनघं विद्वज्जनानन्दनम् ॥३५॥ *दर्शनहिमकरगगनग्रैवेयकसङ्ख्यवत्सरे जातः । आश्विनसिति तुर्यायां, यत्नः सफलो गुरुमहिम्ना ||३६|| ॥ इति प्रशस्तिः ॥ ... ॥ इति श्रीविचाररत्नाकरः समाप्तः ॥ [ श्रीविचाररत्नाकरः ★ १६९० वि.सं. D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452