Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 391
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः] [३३१ तिलमुद्गादीनां द्विदलानां पञ्चवर्षाणि । अतसी १ कुसुम्भ २ कोद्रव ३ कङ्ग ४ बरट ५ रालग ६ कोडूसग ७ शण ८ सर्षपमूलबीजादीनां सप्तवर्षाणि । इति श्रीभगवतीषष्ठशतकसप्तमोद्देशके वृत्तौ ॥८५॥ अथ साधुभिर्नखा न रक्षणीयाः । “केसरोमनखसमारया"[ ] इत्याद्यालोचनं तु भूषा-निमितं सुन्दरताकरणविषयं बोध्यम् । नखवृद्धौ च दोषा यथा-पादनखा दीर्घाश्चङ्क्रमणे उपलादिषु आस्फिटन्ति भज्यन्ते वा । हस्तनखा दीर्घा भाजने लेपं विनाशयन्ति, देहे वा क्षतं कुर्वन्ति । तथा लोको भणेदेष कामी, कामिनीकृतक्षतत्वादिति । लोकश्च भणति दीर्घनखान्तरे सज्ञास्तिष्ठन्त्यतोऽशुचय एवैते । पादनखेषु च दीर्घष्वन्तरे रेणुस्तिष्ठति यावच्चक्षुरुपहन्यते, एतद्दोषपरिहरणार्थं नखकर्तनकुर्वन्नपि शुद्धः स्यात् । इति श्रीयतिजीतवृत्तौ ॥८६॥ ___ ननु च जानन्नपि केवली यदि जन्तुसङ्घातघातमाचरति तर्हि पापद्धिकृत्केवलिनः कः प्रतिविशेषः ? कथं वा तस्याष्टादशदोषरहितत्वम् ? किं वा तस्य केवलित्वमित्येवं वादिनस्तमाशातयन्तीति । हं हो त्रिभुवनादम्भस्तम्भायितश्रीतपागणघुण ! सम्यग्स्वस्वरूपानुरूपमभिहितवानसि । केवली पापद्धिकृता तुल्य इति तु सतां वक्तुमप्यनुचितं, यदि वा सतां वक्तुमनुचितं तर्हि तव किम् , परं वयं त्वेवं ब्रूमः-अवश्यम्भावितया यदि केवलिकायाज्जीवविराधना स्यात्तदा निषेधो नास्ति, केवलं केवले समुत्पन्ने ज्ञान एव विशेषो, न तु शरीरे कश्चिद्विशेषो भवति । तथा (नव)वर्षजस्य केवलिनो नूत्नपादोत्पत्तिप्रसक्तेः । किञ्च यदि कलहकोलाहलं विहाय क्षणं स्वस्थो भवसि तर्हि त्वमेव प्रष्टव्योऽसि देशोनपूर्वकोटि यावद्विहरमाणः केवली एजन-व्यजन-कम्पन-स्पन्दनादिधर्मोपेतसयोगिजीवपक्षान्तःपाती वा निरेजन-नियंजनायोगिजीवपक्षान्तःपाती वा ? अयोगिजीवपक्षान्तःपातीति तु त्वयाऽपि न वाच्यमेव अपसिद्धान्तात् , स तर्हि तस्य तु आरम्भ-सारम्भ-समारम्भादिकमुक्तमेव स्फुटाक्षरैर्भगवता, मा मा च केवलिन आरम्भक: कृषिवाणिज्यादिकोऽन्यो वेत्यादि वदन् स्वपाण्डित्यस्वरूपमद्याप्यज्ञातचरं प्रकटीकुर्वीथाः । यदाह "कोकिलकदम्बकस्थः, कूजति काको न यावदतिकटुकम् । तावन्न हि निर्णेतुं, शक्यो वर्णादिसाधर्म्यात्" ॥१॥[ ] १. श्रीअभयदेवसूरीश्वरकृतवृत्तौ अयं पाठो नास्ति, ततो मूलवृत्तौ भविष्यतीति सम्भाव्यते । D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452