________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३३१ तिलमुद्गादीनां द्विदलानां पञ्चवर्षाणि । अतसी १ कुसुम्भ २ कोद्रव ३ कङ्ग ४ बरट ५ रालग ६ कोडूसग ७ शण ८ सर्षपमूलबीजादीनां सप्तवर्षाणि । इति श्रीभगवतीषष्ठशतकसप्तमोद्देशके वृत्तौ ॥८५॥
अथ साधुभिर्नखा न रक्षणीयाः । “केसरोमनखसमारया"[ ] इत्याद्यालोचनं तु भूषा-निमितं सुन्दरताकरणविषयं बोध्यम् । नखवृद्धौ च दोषा यथा-पादनखा दीर्घाश्चङ्क्रमणे उपलादिषु आस्फिटन्ति भज्यन्ते वा । हस्तनखा दीर्घा भाजने लेपं विनाशयन्ति, देहे वा क्षतं कुर्वन्ति । तथा लोको भणेदेष कामी, कामिनीकृतक्षतत्वादिति । लोकश्च भणति दीर्घनखान्तरे सज्ञास्तिष्ठन्त्यतोऽशुचय एवैते । पादनखेषु च दीर्घष्वन्तरे रेणुस्तिष्ठति यावच्चक्षुरुपहन्यते, एतद्दोषपरिहरणार्थं नखकर्तनकुर्वन्नपि शुद्धः स्यात् । इति श्रीयतिजीतवृत्तौ ॥८६॥
___ ननु च जानन्नपि केवली यदि जन्तुसङ्घातघातमाचरति तर्हि पापद्धिकृत्केवलिनः कः प्रतिविशेषः ? कथं वा तस्याष्टादशदोषरहितत्वम् ? किं वा तस्य केवलित्वमित्येवं वादिनस्तमाशातयन्तीति । हं हो त्रिभुवनादम्भस्तम्भायितश्रीतपागणघुण ! सम्यग्स्वस्वरूपानुरूपमभिहितवानसि । केवली पापद्धिकृता तुल्य इति तु सतां वक्तुमप्यनुचितं, यदि वा सतां वक्तुमनुचितं तर्हि तव किम् , परं वयं त्वेवं ब्रूमः-अवश्यम्भावितया यदि केवलिकायाज्जीवविराधना स्यात्तदा निषेधो नास्ति, केवलं केवले समुत्पन्ने ज्ञान एव विशेषो, न तु शरीरे कश्चिद्विशेषो भवति । तथा (नव)वर्षजस्य केवलिनो नूत्नपादोत्पत्तिप्रसक्तेः । किञ्च यदि कलहकोलाहलं विहाय क्षणं स्वस्थो भवसि तर्हि त्वमेव प्रष्टव्योऽसि देशोनपूर्वकोटि यावद्विहरमाणः केवली एजन-व्यजन-कम्पन-स्पन्दनादिधर्मोपेतसयोगिजीवपक्षान्तःपाती वा निरेजन-नियंजनायोगिजीवपक्षान्तःपाती वा ? अयोगिजीवपक्षान्तःपातीति तु त्वयाऽपि न वाच्यमेव अपसिद्धान्तात् , स तर्हि तस्य तु आरम्भ-सारम्भ-समारम्भादिकमुक्तमेव स्फुटाक्षरैर्भगवता, मा मा च केवलिन आरम्भक: कृषिवाणिज्यादिकोऽन्यो वेत्यादि वदन् स्वपाण्डित्यस्वरूपमद्याप्यज्ञातचरं प्रकटीकुर्वीथाः । यदाह
"कोकिलकदम्बकस्थः, कूजति काको न यावदतिकटुकम् । तावन्न हि निर्णेतुं, शक्यो वर्णादिसाधर्म्यात्" ॥१॥[ ]
१. श्रीअभयदेवसूरीश्वरकृतवृत्तौ अयं पाठो नास्ति, ततो मूलवृत्तौ भविष्यतीति सम्भाव्यते ।
D:\ratan.pm5\5th proof