________________
]
[श्रीविचाररत्नाकरः द्रव्येन्द्रियस्थानीयस्याभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकल्पं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति–एकेन्द्रियाणां तावच्छोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यते एव वनस्पत्यादिषु स्पष्टं तलिङ्गोपलम्भात् । तथा हिकलकण्ठोद्गीर्णमधुरपञ्चमोद्गारश्रवणात् सद्यः कुसुम-पल्लवादिसम्भवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तमेव लिङ्गमवलोक्यते । तिलकादिषु तरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य । चम्पकाद्यहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् प्रकटनं घ्राणेन्द्रियज्ञानस्य । बकुलादिभूरुहेषु तु रेम्भातिशायिस्पर्शप्रवरतररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूषास्वादनात् तदाविःकरणं रसनेन्द्रियज्ञानस्य । कुरुबकादिविटपिषु अशोकादिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणत्कङ्कणाभरणभूषितभव्यभामिनीभूजलतावगूहनसुखान्नि:पिष्टपद्मरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झटिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽपि एतद्भावेन्द्रियज्ञानं सकलजनप्रसिद्धमस्ति तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवद्वनस्पतीनामाहारसञ्ज्ञा । सङ्कोचवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसङ्कोचनादिभ्यो भयसञ्ज्ञा । विरहकचम्पककेसराशोकादीनां तु मैथुनसञ्ज्ञा दर्शितैव । बिल्वपलाशादीनां तु निधानीकृतद्रव्योपरि पादमोचनादिभ्यः परिग्रहसञ्ज्ञा । न चैताः सञ्ज्ञा भाव श्रुतमन्तरेणोपपद्यन्ते तस्माद्भावेन्द्रियपञ्चकावरणक्षयोपशमाद्भावेन्द्रियपञ्चकज्ञानवद्भावश्रुतावरणक्षयोपशमसद्भावाद् द्रव्यश्रुताभावेऽपि यच्च यावच्च भाव श्रुतमस्त्येवैकेन्द्रियाणामित्यलं विस्तरेण । तर्हि "जं विन्नाणं सुआणुसारेण [ ]" इति श्रुतलक्षणं व्यभिचारि प्राप्नोति श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेन्नैवमभिप्रायपरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यच्चैकेन्द्रियाणामोघिकविशिष्टं भावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपं तत् श्रुतानुसारित्वमन्तरेणापि यदि भवति तथाऽपि न कश्चिद् व्यभिचार इति गाथार्थः ॥१०२॥ इति श्रीविशेषावश्यकनियुक्तिवृत्तौ ॥८४॥
शालि १ व्रीहि २ गोधूम ३ यव ४ यवयवानां ५ त्रीणि वर्षाणि जीवत्वम् ।
१. रम्भातिशायिप्रवररूपवर वि.भा.वृ. ।
D:\ratan.pm5\5th proof