________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३२९ भो ! भो ! अपारम्पर्य "पिप्पलिं वा पिप्पलिचुन्नं वा मिरिं वा मिरियचुन्नं वा" इत्यादिनिषेधाक्षरसद्भावेऽपि कथं मरीचिपिष्पल्यादिकं त्वया भुज्यते, भवतामप्येतत्तुल्यमिति चेन्मैवम् । अस्माकं तु अवस्थान्तरसूचकापराक्षरसद्भावात् । तव त्वनन्यगतिकस्यानाचीर्णाचरणेव शरणम् । अस्मदक्षराणि चेमानि
जलमग्गे सयजोअण, थलमग्गे सट्ठिजोयणा उवरिं।
हरडिं पिप्पलि मरियं, समये भणियं अचित्ताणि ॥१॥ तथाऽन्यत्र क्षेत्रे योजनशतात् परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः सर्वस्मादपि क्षेत्रात् योजनशतादूर्ध्वं भिन्नाहारत्वेन शीतादिसम्पर्कतश्चावश्यमचित्तीभवति । इत्थं च क्षेत्रातिक्रमणेनाचित्तीभवनमप्कायादीनामपि यावद्वनस्पतिकायः । तथा च हरीतक्याद्यपि अचित्तीभूतत्वादौषधाद्यर्थं साधुभिग्रह्यते । इत्याचाराङ्गप्रथमाध्ययनतृतीयोद्देशके ॥८२॥
हरियाल मणोसिल पिप्पली अ, खज्जूर मुद्दिया अभया।
आइण्णामणाइण्णा, ते वि हु एमेव नायव्वा ॥१॥ [ बृ.का./९७४] हरितालं मन:शिला पिष्पली खजूरः, एते प्रतीता: मुद्रिका-द्राक्षा, अभया-हरीतकी, एतेऽपि एवमेव लवणवत् । योजनशतागमनादिभिः कारणैरचित्तीभावं भजन्तो ज्ञातव्याः, परमेके आचीर्णा अपरेऽनाचीर्णाः, तत्रापि पिष्पलीहरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते । खजूरमुद्रिकादयः पुनरनाचीर्णा इति न गृह्यन्ते । इति श्रीबृहत्कल्पवृत्तौ प्रथमखण्डे ॥८३॥ अथैकेद्रियाणामपि कथञ्चिद्भावश्रुतं काश्चित्सञ्ज्ञाश्च वर्त्तन्ते, इत्यक्षराणि लिख्यन्ते
जह सुहुमं भाविंदिय-नाणं दव्विदियावरोहे वि।
तह दव्वसुयाभावे, भावसुअंपत्थिवाईणं ॥१॥[वि.भा./१०३] वृत्तिर्यथा-इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोक-बहु-बहुतरबहुतमादितारतम्यभावेन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपञ्चकावरणक्षयोपशमः समस्त्येव, ततश्च यथा पृथिव्यादीनामेकेन्द्रियाणां श्रोत्रचक्षुर्घाणरसनस्पर्शनलक्षणानां प्रत्येकं निर्वृत्त्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं श्रोत्रादिभावेन्द्रियज्ञानं भवति । लब्धीन्द्रियावरणक्षयोपशमोद्भूताणीयसी ज्ञानशक्तिर्भवतीत्यर्थः । तथा तेनैव प्रकारेण द्रव्यश्रुतस्य
D:\ratan.pm5\5th proof