________________
२]
[ श्रीविचाररत्नाकरः खरतराः श्रीअभयदेवसूरिरस्मत्पूर्वजः, इति वदन्ति परं तदसत् , श्रीभगवत्यादिवृत्त्यन्ते चन्द्रकुलस्यैवानीतत्वात् । सुविहिता महापुरुषाः सम्भाव्यन्ते । यदि च खरतगच्छीया स्युस्तहि कल्याणकानि पञ्चेति कथं व्याख्यातवन्तः । व्याख्यातानि च तानि तैस्तथा यथा
पंच महाकल्लाणा, सव्वेसिं जिणाण होइ नियमेण । भुवणच्छेरयभूया, कल्लाण फला य जीवाणं ॥१॥[पञ्चा./९-३०] गब्भे १ जम्मे २ य तहा, निक्खमणे ३ चेव णाण ४ निव्वाणे ५ ।
भुवणगुरूण जिणाणं, कल्लाणा होति णायव्वा ॥२॥[ पञ्चा./९-३१] इति श्रीहरिभद्रसूरिकृतयात्रापञ्चाशके ॥१०॥ श्रीअभयदेवसूरिकृता वृत्तिर्यथा-पञ्चैव कल्याणकानि परमश्रेयांसीति ॥७९॥
अथास्थापिताचार्यपदे भट्टारके परासौ सति यत्कर्त्तव्यं तल्लिख्यते
आशुकारेण शूलादिनोपरतः कालगतः आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं वक्ष्यमाणमर्यादा । तामेवाह-'चिलिमिलिं' इत्यादि, आशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नः कार्यः । वक्तव्यं चाचार्याणामतीवाशुभं शरीरं , वाचाऽपि वक्तुं न शक्नुवन्तीति । ततो यो मतिमान् गणधराभिमुखस्तं दर्शयन्ति । गणत्वमेतस्यानुज्ञातं, परं वाचा वक्तुं न शक्नुवन्तीति । एषा हस्तानुज्ञातस्योपरि वासा निक्षिप्यन्ते एष गणधर इति, पश्चात् कालगता आचार्या इति प्रकाश्यन्ते । इति श्रीव्यवहारचतुर्थोद्देशके ॥८०॥
अथ मृतयुगलिकशरीराणां का गतिः ? इति शङ्कानिरासो लिख्यते
अत्र कश्चिदाह-अग्रेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिः ? उच्यते-भारण्डप्रभृतिपक्षिणस्तानि तथा जगत्स्वाभाव्यान्नीडकाष्ठमिवोत्पाट्य मध्ये समुद्र क्षिपन्तीति । यदुक्तं श्रीहेमाचार्यकृतऋषभचरित्रे_ "पुरा हि मृतमिथुनशरीराणि महाखगाः ।
नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ" ॥१॥ [हे.ऋष.] किं चात्र श्लोकेऽम्बुधावित्युपलक्षणं, तेन यथायोगं गङ्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्ति । इति जम्बूद्वीपप्रज्ञप्तीवृत्तौ श्रीशान्तिचन्द्रगणिकृतायाम् ॥८१॥
D:\ratan.pm5\5th proof