________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३२७ पत्थरलेप्पपित्तलाइयं अप्पणिज्जयं, न पुण पत्थराइसु वंदिज्जमाणेसु कम्मक्खओ किं तु तित्थयरगुणपक्खवाएणं, अण्णहा संकराइबिंबे पहाणाई सब्भावओ तेसु वंदिज्जमाणेसु कम्मखओ हुज्जा, मच्छरेण वा परकारियचेइयालए विग्घमायरंतस्स महामिच्छत्तं न तस्स गंठिभेओ वि संभाविज्जइ, जे पासत्था जे कुदंसणाए विमोहिया सुविहियाणं बाहाकरा हवंति, जे वा जाइनाइपक्खवाएणं साहूणं दाणाइसु पयट्टंति न गुणचिंताए ते वि तहेव, एयंमि विवज्जासरूवे मिच्छते सह सुबहुपढंतो अन्नाणी चेव, एएसु अ हुँतेसु अइदुक्करा वि किरिया न मुक्खसाहगा जम्हा सो अविरओ कहिज्जइ, पंचमगुणट्ठाणे देसविरई छट्ठगुणठाणे सव्वविड़ न पढमगुणट्ठाणे, तस्स य अणंताणुबंधिप्पमुहा सोलस वि कसाया बज्झंति उइज्जति अ, तन्निमित्ताउ असुहाओ दीहट्ठिइओ तिव्वाणुभागाओ पयडीओ बझंति, तासिं च उदएण नरयतिरियकुमाणुसत्तकुदेवत्तरूवो संसारो ॥ इति श्रीउपमितिभवप्रपञ्चग्रन्थे ॥७७॥
इमानि चाक्षराणि दर्श दर्शमियं गरीयसी चिन्ताऽस्मच्चित्तमाचामति यत् यः श्रीजिनपूजाप्रतिमाया रज: पर्वराजत्वमुक्तवान् , तस्य का गतिर्भाविनी? इति । अथवा पर्याप्तं चिन्तयाऽवश्यम्भाविनोऽप्रतीकार्यत्वम् , गतिं तु तस्योपमितिभवप्रपञ्चैव उक्तवती । ननु भवद्भिरपि द्रव्यलिङ्गि-बोटिक-कटुकचैत्यानामवन्दत्वमङ्गीकृतमेव, ततश्चोभयोः समौ दोषपरिहारौ, मैवं जाल्मत्वं त्यज्यताम् । तेषां हि साध्वादिव्यवहारबाह्यत्वेन सर्वविसंवादित्वे साधुत्वस्कन्धोत्थापकत्वेन च सङ्घादिव्यवहारबाह्यान् विहायान्यत्रैव प्रवर्त्तते । अन्यथाऽन्यतीर्थीयपरिगृहीतार्हच्चैत्यानामपि वन्द्यत्वापत्तेः, तच्चागमविरुद्धम् । न च वाच्यमन्ये यदि साधुव्यवहारयुक्तास्तर्हि ते वन्द्याः सन्तु इति । ते हि व्यवहारतो द्रव्यसाधवोऽपि उत्सूत्रभाषित्वान्नैव वन्द्याः, प्रसङ्गवासनासम्भवाद्यनेकदोषसम्भवात् । प्रतिमा तु नोत्सूत्रभाषिणीति, व्यवहारसाध्वाप्रतिष्ठितेति च पुरातनैर्महापुरुषैः प्रणतेति च प्रणम्यत एव व्यवहारसाधुत्वं चामीषां भवताऽप्यङ्गीकर्त्तव्यमेव । इतरथा कापालिकाद्यर्थमाधाकर्मीकृतमशनादि भवतां कल्पते । एतदर्थं कृतं च भवतां न कल्पते तत्कथमित्यलं व्यासेन । कदाग्रहत्यागे सर्वं सस्थमेवेति दिक् ॥
यदि त्रिविधाहार उपवासः प्रत्याख्यातस्तदा परिष्ठापनकं भक्तादि कल्पते । यदि चतुर्विधाहारः प्रत्याख्यातः पानकं च नास्ति ततो न कल्पते । यदि पानीयमप्यधिकं ततो कल्पते । इति श्रीभाष्यावचूर्णौ ॥७८॥
D:\ratan.pm5\5th proof