________________
६]
[ श्रीविचाररत्नाकरः
लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादि । गुरुस्तूपादावैहिकफलार्थं यात्रोपयाचितादि च । ननु यथा वैद्यादयो व्याधिप्रतीकाराद्यर्थं धनभोजनवसनादिना बहु मन्यन्ते तथा सप्रभावयक्षयक्षिण्यादीनामप्यैहलौकिकफलार्थं पूजोपयाचितादौ को दोषः । मिथ्यात्वं हि तदा स्याद्यदि मोक्षप्रदोऽयमिति बुद्ध्याऽऽराध्येत । यदाहु:"अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या ।
अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात्" ॥१॥ [ यो.शा./२-३ ] श्रूयते च-विशुद्धदृढसम्यक्त्वा रावणकृष्ण श्रेणिकाभयकुमारादयोऽपि शत्रुञ्जयपुत्रप्राप्त्याद्यैहिककार्यार्थं विद्यादेवताद्याराधनं कृतवन्त इति । ततश्चेह लोकार्थं यक्षाद्याराधनेऽपि किं नाम मिथ्यात्वम् ? सत्यम् । तत्त्ववृत्त्याऽदेवस्य देवत्वबुद्ध्याऽऽराधनं एव मिथ्यात्वं तथाऽपि यक्षाद्याराधनमिह लोकार्थमपि श्रावकेण वर्जनीयमेव, प्रसङ्गाद्यनेकदोषसम्भवात् । प्रायो हि जीवा मन्द-मुग्ध - वक्रबुद्धयः । सम्प्रति च विशिष्यते ह्येवं विमृशन्ति-यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादिपरम्परा मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गः । तथा चैहिकफलार्थमपि यक्षाद्याराधकस्यापि प्रेत्य बोधिर्दुः प्रापः स्यात् । उक्तं च
‘“अन्नेसिं सत्ताणं मिच्छत्तं जो जणेड़ मूढप्पा |
सो तेण निमित्तेणं, न लहइ बोहिं जिणाभिहियं ॥ [ सं.प्र./९०० ] रावणकृष्णादिभिश्च तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायितया सर्वप्रतीतत्वेनापवादपदे यदि विद्याराधनादिकृतं तदाऽपि तदालम्बनग्रहणं नोचितम् । यतः
" जाणिज्ज मिच्छदिट्ठी, जे य परालंबणाइ घिप्पंति ।
जे पुण सम्मदिट्ठी, तेसि पुणो चडइ पयडीए" ॥१॥ [ सं.प्र./९०१] इति श्रीश्राद्धप्रतिक्रमणसूत्रवृत्तौ 'संकाकंखविगिच्छा' इति गाथायाम् २३ पत्रे ॥७६॥
अत्र ये स्तूपं प्रतिसन्दिह्यन्ते तेषामपि लौकिकगुरुमिथ्यात्वाक्षरैर्निरासः स्पष्ट एव—
सुण पंचविहं मिच्छत्तं थूलभावेणं परमत्थाउ विवज्जासो, सो पुण एवं न मए मम पुव्वपुरिसेहिं वा कारियं जिणाययणं बिंबं वा, कारियं मम पुरिसेहिं वा, ता इत्थ पूयाइयं पवत्तेमि, किं परकीएसु अच्चायरेणं, एवं च न तस्स सव्वणुपच्चया पवित्ती, अन्नहा सव्वेसु बिंबेसु अरिहं चेव ववसिज्जा सो अरहा जइ परकीओ ता
D:\ratan.pm5\5th proof