________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३२५ पूजन-गन्धमाल्यादिभिः समभ्यर्चनं, तथा 'सक्कारवत्तियाए'त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं प्रवरवस्त्रादिभिः समभ्यर्चनं सत्कारः । आह-क एवमाह साधुः श्रावको वा । तत्र साधोस्तावत्पूजनसत्कारावनुचितावेव, द्रव्यस्तवत्वात् , तस्य तत्प्रतिषेधात् “तो कसिणसंजमविऊ पुष्फाईयं न इच्छंति" [ ] इति वचनात् , श्रावकस्तु सम्पादयत्येवैतौ, यथाविभवं तस्य तत्प्रधानत्वात् , तत्र तत्र दर्शितत्वात् , “जिणपूया विभववुड्डि"[ ] त्ति वचनात् । तकोऽनयोविषयः ? इति । उच्यते-सामान्येन द्वावपि साधुश्रावको, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः सामान्येन, तदनुमतिभावात् । भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः । साधु-शोभनमिदमेतावज्जन्मफलमविरतानामिति वचनलिङ्गगम्यः । तदनुमतिरियं उपदेशदानतः, कारणापत्तेश्च, ददाति च भगवतां पूजासत्कारविषयमुपदेशं कर्त्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमिति वचनसन्दर्भेण तत्कारणम् , एतदनवद्यं च । तदोषान्तरनिवृत्तिद्वारेणायमत्र प्रयोजकोंऽशः । तथा भावतः प्रवृत्तेरुपायान्तराभावात् । नागदत्तसुतगर्ताकर्षणज्ञातेन भावनीयमेतत् । तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः । वचनप्रामाण्यादित्थमेवेष्टसिद्धिः, अन्यथाऽयोगादिति । श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थमाह-न तस्यैतयोः सन्तोषः, तद्धर्मस्य तथा स्वभावात् , जिनपूजासत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृत्तिसारत्वेनोचितारम्भिण एतौ सदारम्भरूपत्वात् , औचित्याज्ञाऽमृतयोगादसदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति । तथा हि-द्रव्यस्तव एवैतौ, स च भावस्तवाङ्गमिष्टः, तदन्यस्याप्रधानत्वात् , तस्याभवेष्वपि भावात् । अत आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् । औचित्यप्रवृत्तिरूपेऽप्यल्पभावत्वात् द्रव्यस्तव: गुणाय चायं, कूपोदाहरणेन । न चैतदप्यनीदृशं इष्टफलसिद्धये । किं तु आज्ञामृतयुक्तमेव । स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत् । तदेवमेतयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । इति श्रीहरिभद्रसूरिकृतायां ललितविस्तरायाम् ॥७५॥
तथा जिनपूजा यदि मोक्षसाधनं तर्हि साधुभिः कुतो न क्रियत इत्यादि ये प्रलपन्ति तेषामपीदमेव मुखमुद्रणमिति । अथ लोकोत्तरमिथ्यात्वस्वरूपं लिख्यते
___ लोकोत्तरदेवगतं-परतीर्थिकसगृहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिह लोकार्थं यात्रोपचितमाननादि च, लोकोत्तरगुरुगतं च
D:\ratan.pm5\5th proof