________________
३२४]
[श्रीविचाररत्नाकरः जगति दानं पञ्चविधं प्रसिद्धम् , तत्र प्रथमभयदानं इह लोकेऽभयदानात् श्रेयः, दयालुः, कृपापारावार इत्यादिकीतिः । परलोके तु राज्यऋद्धिभोगपरिवारादिफलं भवति ।
सव्वेसि जीवाणं, अणारियजणेण हम्ममाणाणं । जहसत्तीए वारण-मभयं तं बिंति मुणिवसहा ॥१॥ पंचमहव्वयपरिपालयाण पंचसमिईइ समियाण । सव्वविजुत्ताणं, साहूणं दाणमुत्तमयं ॥२॥ मंदाणं टुंटाणं, दीणअणाहाण अंधबधिराणं । अणुकंपादाणं पुण, जिणेहिं न कया वि पडिसिद्धं ॥३॥ उचियं दाणं एयं, वेलमवेलाइ दारपत्ताणं । तं दाणं दित्तेणं, जिणवयणपभावणा भणिया ॥४॥ जिणसाहुसाहुणीए य, सुकित्तिपरयाण भट्टबडुयाणं ।
तं दाणं जं भणियं, सुकित्तिदाणं मुणिवरेण ॥५॥ अथ चतुर्थं उचितदानं अवसरेषु योग्यमभीष्टप्राघूर्णकदेवगुरुसमागमनप्रासादप्रतिमानिष्पत्तिवर्धापनिकादातॄणां काव्यश्लोकसुभाषितविनोदकथादिकथनकानां रञ्जितचेतसां यद्दीयते तदुचितदानम् । यथा चक्रवर्तिना प्रतिदिनं प्रभातसमये विहरमानतीर्थङ्करस्थितिशुद्धिज्ञापकाय वृत्तिर्दीयते, यथा “वित्तीओ सुवण्णस्स उ'' [ ] इत्यादि । अथ पञ्चमकीर्तिदानं कीर्त्या-निजकुलरूपवंशविद्यागुणवर्णनरूपया भट्टचारणमल्लगन्धर्वमार्गणादीनां यद्दीयते तत्कीर्तिदानम् । यथा सोनाजलहरकूटसागरकडाहिसमुद्रदारिद्र्यमुद्राविहंडणहार इत्यादिविविधगुणवर्णनोत्साहिताः कीर्त्यभिलाषिणो दानव्यसनवासितचेतसः समस्तमपि ददति पुरुषास्तदुपरि विक्रमादित्यकीर्तिदानप्रबन्धाः । इति तपागच्छे श्रीसोमसुन्दरसूरिश्रीरत्नशेखरसूरिशिष्यपण्डितनन्दिरत्नगणिशिष्यरत्नमन्दिरगुम्फितायामुपदेशतरङ्गिण्यां धर्मोपदेशतरङ्गे॥७४॥ ___अहो प्रतिमारिपो? "वंदणवत्तियाए पूअणवत्तियाए" इत्याद्यावश्यकसूत्रादौ प्रतिमापूजनाक्षराणि पश्यन्नपि किं मुह्यसे । ननु 'वंदणवत्तियाए' इत्यादि तु साधुरपि पठति, साधोस्तु द्रव्यार्चनं भवतामप्यनभिमतं ततः कथमयमर्थः समर्थः साधयितुं भवत्समीहितम् । मैवं क्षीरकण्ठ ! त्वदुत्पत्तेः पूर्वमेव पुर्वाचार्यैरियं शङ्का समुट्टङ्क्य निराकृताऽस्तीति सकर्णो भूत्वा शृणु तथा 'पूअणवत्तियाए'त्ति पूजनप्रत्ययं-पूजानिमित्तं
D:\ratan.pm5\5th proof