________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३२३ चउगुरुऽणते चउलहु , परित्तभोगे सचित्तवज्जिस्स।
मंसासववयभंगे, छग्गुरु चउगुरु अणाभोगे ॥१०॥ व्याख्या-सचित्तवर्जकस्य-श्रावकादेः 'अणंते'त्ति अनन्तकायानां मूलकाद्रकादीनां भक्षणे चतुर्गुरु ४ी प्रायश्चित्तं भवति । यदागमः
"साऊ जिणपडिकुट्ठो, अणंतजीवाणगायनिष्फन्नो।
गेही पसंगदोसा, अणंतकाए अओ गुरुगा" ॥१॥[ ] तथा सचित्तवर्जकस्यैव श्राद्धादेः 'परित्त' प्रत्येकपरिभोगे प्रत्येकाम्रादिपुष्फलादिभोगे चतुर्लघुप्रायश्चित्तं भवति । तथा मांसासवयोरुपलक्षणत्वान्मधुनवनीतयोश्च ‘वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् , ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षट्गुरु 'चउगुरु'त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थः ॥९०॥ इति श्रीश्राद्धजीतसूत्रवृत्तौ ३० पत्रे ॥७२॥ ___केचिद्रात्रौ अन्धकारयोनिकास्तद्रूपाः सर्वत्र जलादौ जीवा उत्पद्यन्ते दिवा विलीयन्त इत्यादि वदन्ति परं तदनवबोधसूचकम् । एवं सति दीपप्रभास्पर्श तज्जीवानामिवान्धकारयोनिकजीवविराधनापत्त्या प्रतिक्रमणाद्यभाव एव सम्पनीपद्यते । प्रकाशान्धकारयोरुभयोरपि बाधितत्वात् । अन्धकारस्य पुद्गलमयत्वं चागमप्रसिद्धमेव'ता तज्जोणियाण य' इत्यत्र तु भ्रान्तिन विधेया । तद्योनिका:-तद्वस्तुयोनिकाः निगोदोरणिकप्रभृतय इत्यर्थत्वात् । सा गाथा चेयं सार्थः
तज्जोणियाण जीवाण तहा संपाइमाण य।
निसिभत्ते वहो दिट्ठो, सव्वदंसीहिं सव्वहा ॥२२७॥ तस्मिन्-संसक्तान्नसक्तादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिकास्तेषाम् । तथा सम्पातिमादीनां-आगन्तुककुन्थुपिपीलिकादीनां, चशब्दादात्मनश्च कीटिकादिभिर्मेधादिघातात् , निशि भक्ते वधो विनाशो दृष्टः सर्वदर्शिभिः सर्वथा । इति श्रीश्रावकदिनकृत्यवृत्तौ २२७ पत्रे ॥७३॥ अथ पञ्चविधदानस्वरूपं लिख्यते
अभयं सुपत्तदाणं, अणुकंपा उचिअकित्तिदाणाई। दुन्नि हि मुक्खो भणिओ, तिन्नि हि भोगाइअं दिति ॥१॥
D:\ratan.pm5\5th proof