________________
३२]
[श्रीविचाररत्नाकरः परिणाम: ? तदभावाच्च किं सम्यक्त्वं ? इति चेन्मैवम् , अनन्तजन्तुमयं ज्ञात्वाऽपि मूलकभक्षणं कुर्वतोऽपि सम्यक्त्वक्षतिप्रसक्तेः, न्यायस्योभयत्रापि तुल्यत्वात् । अथ तल्लोकेऽतिनिन्द्यमिति यदि तत्प्रवृत्तिमत्कुले तस्य निन्द्यत्वाभावात् , मूलकादेरिव । तथैव च ज्ञातायां द्रुपदनृपतिगृहे क्षायिकसम्यक्त्वधारी केशवोऽपि अशनपानखादिमस्वादिमयावत्पिशितमद्यादिभुञ्जानः सुखेन व्यवहरदिति श्रूयते । अपरं च यद्यनन्तकायादिमांसादिभक्षणे सम्यक्त्वध्वंस एव दृष्टः स्यात्तर्हि तद्भक्षणस्य प्रायश्चित्तं नोक्तं स्यात् । श्रावक एव प्रायश्चित्ताधिकारी, न तु मिथ्यात्वी । अत्र श्राद्धजीते तु ज्ञात्वाऽपि मांसभक्षणे माध्वीकादिभक्षणे इव प्रायश्चित्तमेवोक्तं, न तु सम्यक्त्वध्वंसोऽश्रावकत्वं वा । सम्यक्त्वाभावे तु प्रायश्चित्तानधिकार एव पुनः सम्यक्त्वोच्चारो वेत्यपि बोध्यम् । तथा पिशितादिविरतिस्तु चारित्रावरणक्षयोपशमोद्भवा । सम्यक्त्वं तु मोहनीयक्षयक्षयोपशमोद्भवमिति, नानयोरपि कश्चित् सहावस्थाननियमोऽस्तीत्याद्यत्र बहु वाच्यं अलं प्रसङ्गेनेति । तत्प्रायश्चित्ताधिकारस्त्वयम् ॥
अथ भोगोपभोगगुणव्रतेऽभक्षनियमविषयं प्रायश्चित्तमाह
महुपंचुंबरिफलप्पुप्फाइवयभंगि गुरुग अन्नाए। नाए छग्गुरुनिअमे, पिसियासवमक्खणे दसगं ॥८९॥
व्याख्या-मधुप्रतीतं पञ्चोदुम्बरी उदुम्बर १ वट २ प्लक्ष ३ काकोदुम्बरि ४ शाखिनां पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलमित्याधुक्तरूपं, फलम्-वृन्ताकादि, पुष्पम्मधूकादि, आदिशब्दात् पर्युषितद्विदलहिमविषादिपरिग्रहः । एतेषां व्रतस्य नियमस्य भङ्गे 'अन्नाए'त्ति अज्ञातेऽनाभोगत इत्यर्थः । अज्ञाते सति 'गुरुग' गुरुका:-चतुर्गुरवः प्रायश्चित्तं भवतीति । 'नाए छग्गुरुग'त्ति ज्ञाते आभोगे सति मधुप्रभृतीनां नियमभङ्गे षट्गुरुप्रायश्चित्तं भवति । अन्ये तु सामान्येन पञ्चोदुम्बरीफलपुष्पादिव्रतभने लघु नमस्काराष्टशतं त्वेके। अपरे तु नियम विनाऽपि पञ्चोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षट्गुरुकमाहुः । अनियमे इत्यादि यस्य ब्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते, तस्य निविषयत्वात् । कदाचिदकृतनियमस्यापि पिशितासवम्रक्षणानाम् । तत्र पिशितं-मासं, आसवो-मद्यं, म्रक्षणंनवनीतं, एतेषां भक्षणे दशकं क्षपणानामिति गाथार्थः ॥८९॥
अथ भोगोपभोगगुणव्रत एवानन्तकायप्रत्येकवनस्पतिनियमविषयं किञ्चिन्मांसासवविषयं विशेषप्रायश्चित्तं चाह
D:\ratan.pm5\5th proof