________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३२१ असणाईया चउरो ४, पाउंछण ५ वत्थ ६ पत्त ७ कंबलयं ८ ।
सूई ९ छुरी १० कन्नसोहणी ११, नहरणिया १२ सागारिपिंडो सो" ॥२॥ इति श्रीबृहत्कल्पभाष्ये ॥६९॥
___ इदानीं साधुः स्थण्डिलादस्थण्डिलं सङ्क्रामन् कस्मिन् काले केन प्रमार्जनं करोतीति लिख्यते
उडुबद्धे रयहरणं, वासावासासु पायलेहणिआ।
वडउंबरे पिलक्ख.तस्स अलंभंमि चिचिणिया ॥६॥ ऋतुबद्धे शीतोष्मकाले 'रयहरणं' ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति । वासासु पायलेहणिय'ति वर्षासु वर्षाकाले वर्षति सति पादलेखनीकया प्रमार्जनं कर्त्तव्यम् , सा च किम्मयी भवति? इत्यत आह–'वडे' त्ति वटमयी उदुम्बरमयी प्लक्षमयी, तस्यालाभे-प्लक्षाप्राप्तौ चिञ्चिणिकामयी-अम्बिलिकामयीति । सा च कियत्प्रमाणा भवति? इत्याह
बारसअंगुलदीहा, अंगुलमेगं तु होइ वित्थिन्ना।
घणमसिणणिव्वणावि य, पुरिसे पुरिसे य पत्तेयं ॥६१॥ द्वादशाङ्गुलानि दीर्घा भवति, येन मध्ये हस्तग्रहे भवति, विस्तारस्त्वेकमङ्गलं स्यात् । सा च घना-निबिडा कार्या, मसृणा निव्रणा च निर्ग्रन्थिर्भवति । सा च किमेकैव भवति ? न इत्याह-पुरुषे पुरुषे च प्रत्येकं एकैकस्य पृथगसौ भवति । इति श्रीओघनियुक्तिवृत्तौ ३१ पत्रे ॥७०॥
___ केचिदज्ञानिनो विद्धं मुक्ताफलमचित्तमविद्धं तु सचित्तमिति वदन्ति परं तदनागमिकम् , आगमे हि विशेषानभिधानेन मौक्तिकानामचित्तेषूक्तत्वात् । तथा हि
“से किंतं अचित्ते? अचित्ते सुवणरययमणिमोत्तिअसंखसिलप्पवालरयणाणं आये से तं अचित्ते"॥इति श्रीअनुयोगद्वारसूत्रे ५१ पत्रे ॥७१॥
अथ कश्चित् पण्डितमन्यो ब्रूते-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, परं तदसङ्गतमेव प्रतिभासते, यतः केवलसम्यक्त्वधारिणो विरतेरभावात् । वृन्ताकाद्यभक्षमिव पिशितमपि नियमितं नास्ति, यदि नाश्नाति तदा तु भव्यमेव । अथ यदि कर्मगतेर्वैचित्र्येण रसनास्वादरसस्य दुरपोहत्वेन भुङ्क्ते तर्हि श्रद्धानरूपे सम्यक्त्वे का नाम क्षतिः । अथ तादृग् सद्यः संमूछिमानन्तजन्तुसन्तानदूषितं तद् ज्ञात्वाऽपि भुञ्जानस्य कथं दया
D:\ratan.pm5\5th proof