________________
[ श्रीविचाररत्नाकरः
अथ तथाविधगीतार्थानां ग्लानादीनां पुनः पुनर्वस्त्रक्षालनमप्यनुज्ञातमेवेत्यक्षराणि लिख्यन्ते
३०]
आयरियगिलाणाणं, मलिणामलिणा पुणो वि धोविज्जा । माहु गुरु अवन्नो, लोगंमि अजीरणं इयरे ॥ ६८ ॥ वृत्तिर्यथा—आह-सर्वेषामपि वस्त्राणि वर्षाकालादर्वागेव प्रक्षाल्यन्ते, किं वाऽस्ति केषाञ्चिद्विशेषः ? अस्तीति ब्रूमः । केषाम् ? इति भेदत आह- आचार्या:-प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः । आचार्यग्रहणमुपलक्षणं, तेनोपाध्यायादीनां प्रभूणां परिग्रहस्तेषाम् । तथा ग्लाना:- मन्दास्तेषाम् च पुनः पुनर्मलिनानि वस्त्राणि प्रक्षालयेत् । प्राकृतत्वाच्च मलिनानीत्यत्र पुंस्त्वनिर्देशः । प्रस्तुतेऽर्थे कारणमाह' मा हु' इत्यादि मा भवतु, हु निश्चितम् गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णो ऽश्लाघा । यथा निराकृतयोऽमी मलदुरभिगन्धोपलिप्तदेहास्ततः किमेतेषामुपकण्ठगतैरस्माभिरिति, तथा इतरस्मिन् ग्लाने मा भवत्वजीर्णमिति । मलक्लिन्नवस्त्रधारणे हि शीतलमारुतादिसम्पर्कतः शैत्यसम्भवेन भुक्ताऽऽहारस्यापरिणतौ ग्लानस्य विशेषतो मान्द्यमुज्जृम्भते । इति श्रीप्रवचनसारोद्धारे एकत्रिंशदुत्तरशततमद्वारे ॥६७॥
यः प्रतिदिनं द्व्यासनं करोति तस्य मासेनाष्टाविंशत्युपवासपुण्यं भवति यथा रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशत्, द्विवारभोजिनस्त्वष्टाविंशतिर्निर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजलव्यापारणादौ प्रत्यहं घटीद्वयघटीद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयसम्भवे त्वष्टाविंशतिरुपवासाः । यदुक्तं पद्मचरित्रे—
'भुंजइ अणंतरेणं, दुन्नि य वेला उ जो निओगेणं ।
सो पावइ उववासा, अट्ठावीसं तु मासेणं" ॥१॥ [ पउमचरियं ] इति श्राद्धविधौ प्रथमाधिकारे ॥ ६८ ॥
अथ नखरदनीछुरीरक्षणाक्षराणि लिख्यन्ते
'असणाईया चउरो ४, वत्थं ५ पायं ६ च कंबलं ७ चेव । पाउंछणगं ८ च तहा अट्ठविहो रायपिंडो सो ॥१॥ [ बृ.भा./६३८४]
44
D:\ratan.pm5\5th proof