________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः ]
[ ३१९
अशुद्धैः शुद्धैर्वाऽशनपानभेषजादिभिग्लनस्य प्रतिचरणं कर्त्तव्यम् । विशिष्य चाचार्योपाध्यायादीनामित्यभिप्रायो लिख्यते—
सम्प्रति ‘गुरुपमुहाणं कीरइ असुद्धसुद्धेहिं जत्तियं कालं' इति त्रिंशदुत्तरशततमं
द्वारमाह
“जावज्जीवं गुरुणो, असुद्धसुद्धेहिं वावि कायव्वं ।
वसहे बारसवासा, अट्ठारस भिक्खुणो मासा" ॥६६॥ [ प्र.सा./८६३ ] यावज्जीवमजन्माऽपीत्यर्थः । गुरोराचार्यस्य शुद्धैराधाकर्मादिदोषादूषितैरशुद्धैर्वाऽपि आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभेषजादिभिः कर्त्तव्यं प्रतिजागरणमिति शेषः । अयमर्थः-शुद्धैरशुद्धैश्च तैर्यावज्जीवं ते प्रतिजागरणीयाः साधु श्रावकलोकेनेति । सर्वस्यापि गच्छस्य तदधीनत्वाद्यथाशक्ति निरन्तरसूत्रार्थनिर्णयप्रवृतेश्च तथा वृषभे - उपाध्यायादिके द्वादशवर्षाणि यावत्प्रतिजागरणा शुद्धैरशुद्धैश्च वस्तुभिर्विधेया । ततः परं शक्तौ भक्तविवेकः। एतावता कालेनान्यस्यापि गच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । तथाऽष्टादशमासान् यावत्सामान्यभिक्षोः - सामान्यसाधोः शुद्धैरशुद्धैश्च प्रतिजागरणा विधेया। ततः परमसाध्यतया शक्तौ सत्यां भक्तविवेकस्यैव कर्त्तुमुचितत्वात् इदं शुद्धाशुद्धादिभिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवशतो भक्ताद्यलाभवतां च विधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रिया व्यवस्थार्थमियं गाथा लिखिताऽस्ति । यथा
"छम्मासे आयरिओ, कुलं च संवच्छराणि तिन्नि भवे ।
संवच्छरं गणो खलु, जावज्जीवं भवे संघो" ॥१॥ [ व्य. भा. / २०२१] अस्य व्याख्या–प्रथमत आचार्य: षण्मासान् यावच्चिकित्सां ग्लानस्य कारयति, तथाऽप्यप्रगुणीभूतं कुलस्य समर्पयति । ततः कुलं त्रीन् वत्सरान् यावच्चिकित्सकं भवति, तताऽप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति यावद् गणः खलु चिकित्सां कारयति, तथाऽप्यनिवर्तिते रोगे तं गणः सङ्घस्य समर्पयति । ततः सङ्घो यावज्जीवं प्रासुकप्रत्यवतारेण, तदभावे चाऽप्रासुकेनापि यावज्जीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकं कर्त्तुमशक्नुवतः । यः पुनर्भक्तविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादशामासान् चिकित्सा कारयितव्या । विरतिसहितस्य पुनः संसारे दुःप्रापत्वात् । तदनन्तरं चेत् प्रगुणीभवति ततः सुन्दरम् । अथ न भवति तर्हि भक्तविवेकः कर्त्तव्यः । इति श्रीप्रवचनसारोद्धार ॥१६६ पत्रे ॥६॥
D:\ratan.pm5\5th proof