________________
१]
[श्रीविचाररत्नाकरः ___ छद्मस्थेनापि सह केवली विहरतीत्यक्षराणि लिख्यन्ते
निविअअट्ठमयट्ठाणे, सोसियकसाए जिइंदिए।
विहरिज्जा तेण सद्धिं तु, छउमत्थेणावि केवली ॥४२॥ इति गच्छाचारप्रकीर्णके ॥६२॥
द्वाविंशते: परीषहाणां मध्ये उष्णा: के ? शीतलाश्च के ? इत्यभिप्रायो लिख्यते"इत्थीसक्कारपरीसहा य, दो भावसीयला एए।
सेसा वीसं उण्हा, परीसहा होंति नायव्वा" ॥२॥ इत्याचाराङ्गनिर्युक्तौ ॥६३॥
समन्ताद्विस्तृतपुष्पप्रकरे समवसरणे साधूनां तिष्ठतां कथं न सचित्ते सङ्घट्टदोष इति शङ्कानिरासो लिख्यते
पुष्पवृष्टिरत्राहुः परे–कथमम्लानपुष्प्रकरोपरि सर्वथा सच्चित्तसङ्घट्टनादिविरतानां यतीनामवस्थानादि युज्यते । अत्र केचित् प्रेरयन्ति-साध्ववस्थानस्थाने देवा न किरन्तीति । अन्ये त्वाहुः-नैतदेवम् , प्रयोजनेऽन्यत्रापि साधूनां गमनादिरपि सम्भवात् । केवलं विकुर्वितत्वात्तानि सचित्तानि न सम्भवन्ति । अन्ये त्वाहुः-न विकुर्वितान्येव तानि, जलजस्थलजानामपि पुष्पाणां तत्र प्रकीर्णत्वात् । यदागमः
"बिंटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारिं ।।
पयरंति समंतेणं, दसद्धवन्नं कुसुमवासं" ॥ [ ] परमत्र बहुश्रुता एवं समादधते-यथा निरुपमाऽचिन्त्यार्हत्प्रभावादेव योजनमात्रे क्षेत्रेऽपरिमितामादिसत्त्वसम्भवेऽपि न परस्परमाबाधा काचित् तथा पुष्पाणामपि तेषामुपरि सञ्चरिष्णौ स्थाष्णौ च मुन्यादिलोके । तत्त्वं तु केवलिनो विदन्ति । इति श्रीप्रवचनसारोद्धारैकोनचत्वारिंशद्वारे ॥६४॥
स्त्रियाः संभोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथोपवासाचाम्लादेर्वपुरभ्यङ्गगडुकरम्बबन्धनादिनाऽपि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरसम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् । इति श्राद्धविधौ ॥६५॥
D:\ratan.pm5\5th proof