________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३१७ अर्के स्तमिते यावन्नक्षत्राणि नभस्तले ।
द्वित्राणि नैव वीक्षन्ते, तावत् सायं विदुर्बुधा" ॥२॥ [ विवेकविलासः ] इति श्राद्धविधौ ॥५६॥
नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुन्थ्वण्डकादिविराधना भूयसी ततस्तानि पापभीरवो रात्रौ न व्यापारयन्ति येऽपि व्यापारयन्ति तेऽपि सम्यग् दिवा संशोध्यैव । ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि, कामाङ्गत्वात्तेषाम् । प्रत्येकसचित्तेऽप्येकस्मिन् फलादावसङ्ख्यजीवविराधनासम्भवः । यदागम:
"जं भणियं पज्जत्तगनिस्साए वुक्कमंतऽपज्जत्ता ।
जत्थेगो पज्जत्तो तत्थ असंखा अपज्जत्ता" ॥ बादरैकेन्द्रियेष्वेवमुक्तम् । सूक्ष्मे तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्येयाः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादौ [आ.१.१.२ नि.७९ वृत्तिः ] उक्तम् । इति श्राद्धविधौ ॥५७॥ अभिप्रायस्तु स्पष्ट एव।
अधिकोपधिधारी साधुर्न भवतीति ये वदन्ति तदबोधाय लिख्यते
तत्र स्थविरकल्पे जघन्यतोऽपि चतुर्दशोपकरणान्येव । उत्कृष्टपदिकोपकरणचिन्तायां तु शीताद्यसहिष्णून् तपस्वी बालग्लानान् प्रतीत्य यावत्संयमहेतुर्द्विगुणोऽप्यधिको वा उपधिरवगन्तव्यः । इति श्रीनिशीथचूर्णाद्यागमे ॥५८॥ तथा-"मुल्लजुअं पुण तिविहं, जहन्नयं मज्झिमं च उक्कोसं ।
जहन्नं अट्ठारसगं, सयसाहस्सं च उक्कोसं" ॥१॥ एतद्गाथोक्तं त्रिविधप्रमाणमपि वस्त्रं साधूनां ग्रहीतुं न कल्पते, किं त्वष्टादशरूपकमानान्न्यूनमूल्यं साधूनाम् । इति स्थानाङ्गवृत्तौ ॥५९॥
रूपकमानमनेकार्थावचूर्णौ त्वेवमुक्तमस्ति-चतुर्भिर्वराटकैगण्डकः, तेषां पञ्चविंशत्या पणः, तच्चतुर्थोऽश: काकिणिः, तासामशीत्यारूपकं विंशत्या वराटकैः काकिणिरित्यर्थः । तथा विरलिका नाम द्विसरसूत्रपटी सा साधूनां न कल्पते, दु:पेक्ष्यत्वात् । इति कल्पवृत्तौ द्वितीयखंडे १२३ पत्रे ॥६०॥
जो भणइ नत्थि धम्मो, न य सामइयं न चेव न वयाई ।
सो समणसंघबज्झो, कायव्वो समणसंघेण ॥२॥ इति श्रीतीर्थोद्गालिकप्रकीर्णके ॥६१॥ अभिप्रायस्तु स्पष्ट एव ।
D:\ratan.pm5\5th proof