________________
[श्रीविचाररत्नाकरः ___अथ केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते तच्च सिद्धान्तविरुद्धं यथा
पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा चतुर्दश्यामिति ब्रूमः । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात् पाक्षिकमपि षष्ठेन स्यात् । तथा च "अट्ठमछट्टचउत्थं, संवत्सरचाउमासपक्खेसु" [ ] इत्याद्यागमविरोधः । यत्र चतुर्दर्शी गृहीता न तत्र पाक्षिकं यत्र पाक्षिकं न तत्र चतुर्दर्शी। तथा हि-"अट्ठमी चउद्दसीसु उववासकरणं" [ ] इति पाक्षिकचूर्णौ ।
"सो अ अट्ठमीचउद्दसीसु उववासं करे" [ ] इत्यावश्यकचूर्णौ । "चउत्थछट्ठमकरणं अट्ठमीपक्खचउमासवरिसे य" त्ति व्यवहारभाष्यपीठे[ १३३ गा.]। "अट्ठमी चउद्दसी नाणपंचमीचाउमास" इत्यादि महानिशीथे।
व्यवहारषष्ठोद्देशके च–“पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं । [व्य.भा. २६९८ पू.] इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशब्देन चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सिरके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणतः चतुर्दशीचतुर्थ्योः क्रियेते । प्रामाणिकं चैतत् , सर्वसम्मतत्वात् । उक्तं च कल्पभाष्यादौ
"असढेण समाइन्नं, जं कत्थइ केणई असावज्जं ।
न निवारिअमन्नेहिं, बहुमणुमयमेयमायरियं" ॥१॥ [क.भा./४४९९] तीर्थोद्गारादावपि
"सालाहणेण रन्ना, संघाएसेण कारिओ भयवं? । पञ्जोसवणचउत्थी, चाउम्मासं च चोद्दसिए ॥१॥ [तित्थोग्गालियम्] चउमासपडिक्कमणं, पक्खिअदिवसंमि चउविहो संघो ।
नवसयतेणउएहि, आयरणं तं पमाणं ति" ॥२॥ [ तित्थोग्गालियम् ] अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्ग्रहोऽवगाहनीयः । इति श्राद्धविधौ पर्वकृत्याधिकारे ७६ पत्रे ॥५५॥
एतेनैव च ये पञ्चम्यां पर्युषणां कुर्वन्ति तेऽपि परास्ता द्रष्टव्याः ।
"नक्षत्रेषु समग्रेषु , भ्रष्टतेजस्सु भास्वतः । यावदोदयस्तावत् , प्रातःसन्ध्या प्रजायते ॥१॥ [ विवेकविलासः]
D:\ratan.pm5\5th proof