Book Title: Vicharratnakar
Author(s): Kirtivijay, Chandanbalashree
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 379
________________ श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः ] [ ३१९ अशुद्धैः शुद्धैर्वाऽशनपानभेषजादिभिग्लनस्य प्रतिचरणं कर्त्तव्यम् । विशिष्य चाचार्योपाध्यायादीनामित्यभिप्रायो लिख्यते— सम्प्रति ‘गुरुपमुहाणं कीरइ असुद्धसुद्धेहिं जत्तियं कालं' इति त्रिंशदुत्तरशततमं द्वारमाह “जावज्जीवं गुरुणो, असुद्धसुद्धेहिं वावि कायव्वं । वसहे बारसवासा, अट्ठारस भिक्खुणो मासा" ॥६६॥ [ प्र.सा./८६३ ] यावज्जीवमजन्माऽपीत्यर्थः । गुरोराचार्यस्य शुद्धैराधाकर्मादिदोषादूषितैरशुद्धैर्वाऽपि आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभेषजादिभिः कर्त्तव्यं प्रतिजागरणमिति शेषः । अयमर्थः-शुद्धैरशुद्धैश्च तैर्यावज्जीवं ते प्रतिजागरणीयाः साधु श्रावकलोकेनेति । सर्वस्यापि गच्छस्य तदधीनत्वाद्यथाशक्ति निरन्तरसूत्रार्थनिर्णयप्रवृतेश्च तथा वृषभे - उपाध्यायादिके द्वादशवर्षाणि यावत्प्रतिजागरणा शुद्धैरशुद्धैश्च वस्तुभिर्विधेया । ततः परं शक्तौ भक्तविवेकः। एतावता कालेनान्यस्यापि गच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । तथाऽष्टादशमासान् यावत्सामान्यभिक्षोः - सामान्यसाधोः शुद्धैरशुद्धैश्च प्रतिजागरणा विधेया। ततः परमसाध्यतया शक्तौ सत्यां भक्तविवेकस्यैव कर्त्तुमुचितत्वात् इदं शुद्धाशुद्धादिभिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवशतो भक्ताद्यलाभवतां च विधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रिया व्यवस्थार्थमियं गाथा लिखिताऽस्ति । यथा "छम्मासे आयरिओ, कुलं च संवच्छराणि तिन्नि भवे । संवच्छरं गणो खलु, जावज्जीवं भवे संघो" ॥१॥ [ व्य. भा. / २०२१] अस्य व्याख्या–प्रथमत आचार्य: षण्मासान् यावच्चिकित्सां ग्लानस्य कारयति, तथाऽप्यप्रगुणीभूतं कुलस्य समर्पयति । ततः कुलं त्रीन् वत्सरान् यावच्चिकित्सकं भवति, तताऽप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति यावद् गणः खलु चिकित्सां कारयति, तथाऽप्यनिवर्तिते रोगे तं गणः सङ्घस्य समर्पयति । ततः सङ्घो यावज्जीवं प्रासुकप्रत्यवतारेण, तदभावे चाऽप्रासुकेनापि यावज्जीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकं कर्त्तुमशक्नुवतः । यः पुनर्भक्तविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादशामासान् चिकित्सा कारयितव्या । विरतिसहितस्य पुनः संसारे दुःप्रापत्वात् । तदनन्तरं चेत् प्रगुणीभवति ततः सुन्दरम् । अथ न भवति तर्हि भक्तविवेकः कर्त्तव्यः । इति श्रीप्रवचनसारोद्धार ॥१६६ पत्रे ॥६॥ D:\ratan.pm5\5th proof

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452